2023-12-25 14:21:17 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
८७३
 
च इत्याहुः । ३ दुर्गादेवी इति शाक्ता आहुः । ४ दैवज्ञास्तु पूजाहोमजप-

दानादिद्वारा गोचरविलग्नादिस्थग्रहदौस्थ्यदुःस्वप्नादिसूचितैहिका निष्टहेतु-

पापनिवृत्तिः । तदुक्तम् यथा शस्त्रप्रहाराणां कवचं विनिवारकम् ।

तथा दैवोपघातानां शान्तिर्भवति वारणम् ॥ ( मलमासधृतवाक्यम्) ।

यथा उदकशान्तिः वास्तुशान्तिः भुवनेश्वरीशान्तिः इत्याहुः । आलं-

कारिकास्तु शमस्थायिभावक निर्वेदव्यभिचारिभावकशान्ताख्यर सविशेष-

निष्ठो धर्मविशेषः इत्याहुः । तदुक्तम् शान्तः शमस्थायिभाव उत्तम-

प्रकृतिर्मतः । कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः ॥ ( सा० ५०

परि० ३ श्लो० २४५ पृ० १८४ ) इत्यादि ।

 
<
शाब्दज्ञानम्>
शाब्दबोधशब्दवदस्यार्थोनुसंधेयः ।

 
<
शाब्दबोधः - >
( अनुभवः ) पदज्ञानकरणकं ज्ञानम् (मु० १) । तच्च

वाक्यार्थज्ञानम् ( त० सं० ४ ) । अत्र व्युत्पत्तिः शब्दाज्जायमानो

बोध: शाब्दबोधः इति । तत्र बोधे शाब्दत्वं च शब्दात्प्रत्येमि इत्यनुभव-

सिद्धो जातिविशेषः । अथ वा जन्यपदधीजन्यत्वव्यभिचार्यनुभवत्वाव्या-

पकजातिशून्यत्वे सति पदविषयकत्वाव्यभिचारिजातिशून्यघीत्वम् । विप्र-

ह्श्व जन्यपदघीजन्यत्वव्यभिचारिणी अनुभवत्वाव्यापिका च या जाति:

प्रत्यक्षत्वादिः तच्छ्रन्यत्वे सति पदविषयकत्वाव्यभिचारिणी या जातिः

उपमितित्वम् तच्छ्रन्यधीत्वम् ( त० प्र० परि० ४ पृ० ३) इति ।

अत्र पदप्रयोजनम् सत्यन्तं प्रत्यक्षानुमितिस्मृतीनां वारणाय । उपमि-

तावतिव्याप्तिवारणाय शून्यान्तम् (न्या० म० परि० ४१ पृ० १-२ ) ।

शाब्दबोधलक्षणं तु शक्तिलक्षणान्यतरसंबन्धेन पदजन्य पदार्थस्मृतित्वाव-

च्छिन्नकारणतानिरूपितकार्यत्वम् ( वाक्य ० ४ ) । शाब्दबोधे च पद-

ज्ञानं करणम् । पदार्थोपस्थितिर्व्यापारः । शाब्दबोधः फलम् । पदज्ञा-

मस्य च शक्तिज्ञानम् आकाङ्क्षयोग्यतासंनिधीनां ज्ञानं च सहकारि इति

वृत्तिज्ञानं सहकारि न तु शक्तित्वेन लक्षणात्वेन वा प्रातिस्विकरूपेण

नव्यनैयायिकानां मतम् । अत्र विज्ञेयम् । तस्यां पदार्थोपस्थितौ वृत्तित्वेन

ज्ञानं सहकारि इति । प्राञ्चां मतं तु तत्र शाब्दबोधे ज्ञायमानं पदमेव
 

११० न्या० को०