This page has not been fully proofread.

न्यायकोशः ।
 
८७३
 
च इत्याहुः । ३ दुर्गादेवी इति शाक्ता आहुः । ४ दैवज्ञास्तु पूजाहोमजप-
दानादिद्वारा गोचरविलग्नादिस्थग्रहदौस्थ्यदुःस्वप्नादिसूचितैहिका निष्टहेतु-
पापनिवृत्तिः । तदुक्तम् यथा शस्त्रप्रहाराणां कवचं विनिवारकम् ।
तथा दैवोपघातानां शान्तिर्भवति वारणम् ॥ ( मलमासधृतवाक्यम्) ।
यथा उदकशान्तिः वास्तुशान्तिः भुवनेश्वरीशान्तिः इत्याहुः । आलं-
कारिकास्तु शमस्थायिभावक निर्वेदव्यभिचारिभावकशान्ताख्यर सविशेष-
निष्ठो धर्मविशेषः इत्याहुः । तदुक्तम् शान्तः शमस्थायिभाव उत्तम-
प्रकृतिर्मतः । कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः ॥ ( सा० ५०
परि० ३ श्लो० २४५ पृ० १८४ ) इत्यादि ।
शाब्दज्ञानम् – शाब्दबोधशब्दवदस्यार्थोनुसंधेयः ।
शाब्दबोधः - ( अनुभवः ) पदज्ञानकरणकं ज्ञानम् (मु० १) । तच्च
• वाक्यार्थज्ञानम् ( त० सं० ४ ) । अत्र व्युत्पत्तिः शब्दाज्जायमानो
बोध: शाब्दबोधः इति । तत्र बोधे शाब्दत्वं च शब्दात्प्रत्येमि इत्यनुभव-
• सिद्धो जातिविशेषः । अथ वा जन्यपदधीजन्यत्वव्यभिचार्यनुभवत्वाव्या-
पकजातिशून्यत्वे सति पदविषयकत्वाव्यभिचारिजातिशून्यघीत्वम् । विप्र-
ह्श्व जन्यपदघीजन्यत्वव्यभिचारिणी अनुभवत्वाव्यापिका च या जाति:
प्रत्यक्षत्वादिः तच्छ्रन्यत्वे सति पदविषयकत्वाव्यभिचारिणी या जातिः
उपमितित्वम् तच्छ्रन्यधीत्वम् ( त० प्र० परि० ४ पृ० ३) इति ।
अत्र पदप्रयोजनम् सत्यन्तं प्रत्यक्षानुमितिस्मृतीनां वारणाय । उपमि-
तावतिव्याप्तिवारणाय शून्यान्तम् (न्या० म० परि० ४१ पृ० १-२ ) ।
शाब्दबोधलक्षणं तु शक्तिलक्षणान्यतरसंबन्धेन पदजन्य पदार्थस्मृतित्वाव-
च्छिन्नकारणतानिरूपितकार्यत्वम् ( वाक्य ० ४ ) । शाब्दबोधे च पद-
ज्ञानं करणम् । पदार्थोपस्थितिर्व्यापारः । शाब्दबोधः फलम् । पदज्ञा-
मस्य च शक्तिज्ञानम् आकाङ्क्षयोग्यतासंनिधीनां ज्ञानं च सहकारि इति
• वृत्तिज्ञानं सहकारि न तु शक्तित्वेन लक्षणात्वेन वा प्रातिस्विकरूपेण
नव्यनैयायिकानां मतम् । अत्र विज्ञेयम् । तस्यां पदार्थोपस्थितौ वृत्तित्वेन
ज्ञानं सहकारि इति । प्राञ्चां मतं तु तत्र शाब्दबोधे ज्ञायमानं पदमेव
 
११० न्या० को०