न्यायकोशः /926
This page has been fully proofread once and needs a second look.
भवे-
तत्सर्वे गर्भसंज्ञकम् ॥ कालेन वर्धितो गर्भो यद्यङ्गोपाङ्गसंयुतः ।
तदा स मुनिभिः शरीरीति निगद्यते ॥ इति । तल्लक्षणादिकं तु जीव-
शब्दव्याख्याने दृश्यम् ।
८७२
-
<शकेराः
मृत्तिकामिश्रा: क्षुद्रपाषाणाः शर्करा: ( जै० न्या० अ० १
पा० ४ अधि० १९) ।
1
<शस्त्रम्
अप्रगीतमन्त्रसाध्या स्तुतिः ( जै० न्या० अ० २ पा० १
अधि० ५ ) ।
<शांकरम्
आर्द्रा ( पु० चि० पृ० ३५३ ) ।
-
<शांभवी
( कल्याणीशब्दे दृश्यम् ) ।
-
<शाक्य:
बुद्धः । शाक्यशब्द निरुक्तिरन्यथोक्ता । यथा शाकवृक्षप्रतिच्छतं
वासं यस्मात्प्रचक्रिरे । तस्मादिक्ष्वाकुवंश्यास्ते भुवि शाक्या इति श्रुताः ॥
इति भरतधृतवचनम् । इयमन्त्राख्यायिका । पितृशप्ताः केचिदिक्षा
•
कुवंश्या गोतमवंशजकपिलमुनेराश्रमे योगाभ्यासाय शाकवृक्षे कृतवाला:
शाक्यायनम् -
<शाक्यायनम्>
( यागः ) षट्त्रिंशत्सु संवत्सरेष्वनुष्ठेयं शाक्यावनद
शाक्य इति ख्यातिमापन्नाः इति ( वाच० ) । शिष्टं तु बुद्धशब्दे दृश्यम /
( जै
<शाठीसमः
( जाति: ) त्वपक्षे किंचिद्दूषणं भविष्यति इति शङ्का (गौ०
वृ० ५।१।३७ ) । अयं शाठीसमश्च सूत्रानुक्तोपि कार्यसमप्रभेदः
वृत्तिकृता प्रतिपाद्यते इति विज्ञेयम् ।
इति
8
क
<शानच्
( प्रत्ययः ) १ प्रकृतधात्वर्थकर्ता कर्तृशानचोर्थः (तर्का०
पृ० १२ ) । यथा पचमानः इत्यादौ । २ धात्वर्थजन्यफलवान्
कृतां ल्युट्घञादीनां तु प्रयोगसाधुत्वमात्रं प्रयोजनम् इति विज्ञेयम्/
शानचोर्थः । यथा पच्यमान इत्यादौ । एवं कृतामप्यर्था ऊद्याः / भाव
<शान्ति:
१ उपद्रवनिवारणम् । यथा शान्ता पृथिवी शान्तं पापर
इत्यादौ । २ वेदान्तिनस्तु कामक्रोधादिजयः विषयेभ्यो मनसो निवारण