2023-12-25 14:19:14 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
८७१
 
कवायुसंबन्धात् । अन्यथा तादृशवायुसंबन्धानङ्गीकारे भग्नक्षतसंरोहणा-

दिकं न स्यात् । किं च वृक्षादयोपि शरीरभेदा एव । भोगाधिष्ठान-

त्वात् । न खलु भोगाधिष्ठानत्वमन्तरेण जीवन स्मरण स्वप्नजागरणभेष-

जप्रयोगबीजसजातीय नुबन्धानुकूलोपगमप्रतिकूलापगमादयः संभवन्ति ।

भोगोपपादकः प्राणवायुः । तदुपपादकं तु वृद्धिक्षतभग्नसंरोहणादिकम्

इति । आगमोप्यस्ति प्रमाणम् नर्मदातीरसंभूताः सरलार्जुनपादपाः ।

नर्मदातोयसंस्पर्शान्ति परमां गतिम् ॥ गुरुं हुंकृत्य तुंकृत्य विप्रं


४/२/५ ) (दि० ११२) इत्यादि । तथा शरीरजैः कर्मदोषैर्याति

स्थावरतां नरः ( याज्ञ० ) ( त० व० पृ० ११६) इत्यादि । मन्वा-

दिविषये तु श्रूयते ब्रह्मणो मानसा मन्वादयः पुत्राः इति
 

निर्जित्य वादतः । श्मशाने जायते वृक्षः कङ्कmms
 
पुत्राः
 
इति । ब्राह्मणमपि
 
प्र
जापतिः
प्रजा अनेका असृजत् । स तपोतप्यत । प्रजाः सृजेयमिति ।

समुखतो ब्राह्मणमसृजत् । बाहुभ्यां राजन्यम् । ऊरुभ्यां वैश्यम् ।

पद्भ्यां शूद्रम् (वै० उ० ४२११) इति । दुर्वासःप्रभृतयो मानसाः

(वै० ४१२१८ ) ( प०
( त० व० ) । अत्रेदं
 
इति । ब्राह्मणमपि
अहंकारेभ्यः समभवदङ्गिराः इति -
 
मा० )
। केचित्तु देवादीनां शरीरं तैजसमाहुः
 

बोध्यम् । क्षुद्रजन्तूनामूष्मजानां मशकादीनां तु यातनाशरीरमध्ययो-

निजमेव ( वै० उ० ४/२/५ ) (मु० १ ) ( सि० च० ) इति ।

एतच्छरीरं त्वधर्मविशेषसहितेभ्योणुभ्य एव जायते इति ज्ञेयम् (वै०

४/२/७ ) (प० मा०) । सुश्रुते विशेष उक्तः । द्रव्याणि पुनरोषधयः ।

ता द्विविधाः स्थावराः जङ्गमाश्च । तासां स्थावराश्चतुर्विधाः वनस्प-

तयः वृक्षाः वीरुधः ओषधयश्च इति । जङ्गमा अपि चतुर्विधाः जरायु-

जाण्डजस्वेदजोद्भिज्जाः । तत्र पशुमनुष्यव्यालादयो जरायुजाः । खगस-

पेसरीसृपप्रभृतयोण्डजाः । क्रिमिकीटपिपीलिकाप्रभृतयः खेदजाः । इन्द्र-

गोपमण्डूकप्रभृतय उद्भिज्जाः इति ।
 
1
 

 
<
शरीरी>
जीवात्मा । यथा अथाकाशशरीरिणाम् ( मा०प० लो० २७)

यादौ शरीरशब्दयार्थः । तत्स्वरूपं भावप्रकाशे सुश्रुतादौ चोतं
 
ama
 
-
 
DIS