न्यायकोशः /923
This page has not been fully proofread.
८६९
न्यायकोशः ।
(बै० उ० ४।२।१ ) । अथ वा अन्त्यावयविमात्रवृत्तिचेष्टावट्ट-
प्तिजातिमत्त्वम् (वै० वि० ४ । २ । १ ) ( प० मा० ) । अत्रत्यपद-
प्रयोजनमुच्यते । हस्तत्वपृथिवीत्वद्रव्यत्वसस्त्रादिवारणाय अन्त्यावय-
विमात्रवृत्ति इति पदं दत्तम् । घटस्वादिवारणाय चेष्टावद्वृत्ति इति
पदम् । घटशरीरसंयोगादिवारणाय जाति इति पदम् । एवं च मनुष्यत्व-
चैत्रत्वादिजातिमादाय मानुषादिशरीरे लक्षणसमन्वयः । कल्पभेदेन
नृसिंहशरीरस्य नानात्वान्नृसिंहत्व जातिमादाय तत्र लक्षणसमन्वयः ।
अथ वा अवच्छेदकतासंबन्धेन भोगाश्रयत्वम् ( वाक्य० ) ।
यद्वा चेष्टावदन्त्यावयवीतरावृत्तिजातिमत्त्वम् । भोगायतनवृत्त्यन्त्यावय-
विमात्रवृत्तिजातिमत्त्रं वा ( प० मा० ) । जीवशरीरमात्रलक्षणं
तु आत्मविशेषगुणजनकमनःसंयोगावच्छेदकत्वम् ( त० भा० ) ।
अथ चेष्टेन्द्रियार्थाश्रय इत्यस्यार्थ उच्यते । अत्र आश्रयपदस्य प्रत्येकम-
न्वयाच्चेष्टाश्रयत्वादि लक्षणत्रयम् । इन्द्रियाश्रयत्वं चावच्छेदकताख्यस्वरू
पसंबन्धविशेषेण । चक्षुष्मान् देवदत्तोयम् इत्यादिप्रतीतेः । अर्थाश्रयत्वम्
इत्यत्रार्थशब्दः सुखदुःखान्यतरपरः ( गो० वृ० ११ १/११ ) । यद्वा
शरीरानुविधानमिन्द्रियाश्रयत्वम्
।
शरीरस्योपघातानुविधानमित्यर्थः
( न्या० वा० ११ १/११ पृ० ७१ ) । [ख ] आत्मनो भोगायतनम्
( वात्स्या० १।१९ ) ( त० भा० पृ० २५ ) ( वाक्य० ) । यद-
वच्छिन्नात्मनि भोगो जायते तद्भोगायतनमित्यर्थः ( त० दी० ) ।
हस्ताद्यवयवानां शरीरत्वानङ्गीकारे त्वन्त्यावयवित्वं देयम् । तथा
चोक्तं भोगायतनमन्त्यावयवि शरीरम् ( त० को० ) इति । शरी-
रमन्त्यावयवि चेष्टाभोगेन्द्रियाश्रयः ( ता० २० परि० १ श्लो० २८)
इति च । यथा अस्मदादीनां पार्थिवशरीरम् ( त० सं० ) । तच शरीरं
न पाञ्चभौतिकम् ( जलादिपरमाणुद्वयसंयोगासमवायिकारणकम् ) ।
पृथिवीत्वजलत्यादिजातीनां परस्परसांकर्यप्रसङ्गात् । किं तु पार्थिवमेव ।
स्वाभाविकगन्धवत्वात् । अत्र सूत्रम् पार्थिवं गुणान्तरोपलब्धेः ( गौ०
३।१।२८ ) इति । श्रुतिरपि सूर्य ते चक्षुर्गच्छतात् इत्यत्र मन्त्रे पृथिवीं