This page has not been fully proofread.

न्यायकोशः ।
 
चिन्नैयायिकानां मते वीचीतरङ्गन्यायेन तदुत्पत्तिः । केषांचिन्मते तु
कदम्बको रकन्यायेन तदुत्पत्तिः ( भा०प० श्लो० १६७) । तत्राचा
• तदुत्पत्तिर्यथा आद्यया वीच्यान्यो महानेकस्तरङ्गो जन्यते । तेन तरङ्गेण
च महत्तरं तरङ्गान्तरम् । तद्वत् आद्यशब्देन बहिर्दश दिगवच्छिन्नोन्यशब्द-
स्तेनैव शब्देन जन्यते तेन चापरस्तव्यापकः शब्दः इत्येवं क्रमेण श्रोत्रो-
[पत्तिः । अनन्तरम् तद्बहिर्दशदिगवच्छेदेन प्रथमशब्दात्तद्व्यापको द्वितीयः
त्पन्नः शब्दो गृह्यते । भेरीदण्डाद्यभिघातात्तद्देशावच्छेदेना द्यशब्दसो-
शब्दः । ततस्तद्वहिर्दशदिगवच्छिन्नस्तृतीयः शब्दो द्वितीयशब्द
 
इत्येवं क्रमेण चतुर्थादिशब्दानामप्युत्पत्तिर्बोध्या । द्वितीया तदुत्पत्तिर्यथा ।
कदम्बपुष्पस्य सर्वावयवेषु युगपत्कोरकाणामुत्पत्तिः तद्वत् आद्यशब्दाइ- /
शसु दिक्षु दश शब्दा उत्पद्यन्ते तैश्चान्ये दश शब्दा उत्पद्यन्ते इत्येवं
• सर्वासु दिक्षूपर्युपरि शब्दानामुत्पत्तिः ( मु० गु० पृ० २३६ ) इति ॥
• द्वितीयादिशब्दो नैकः न वा दशदिगवच्छिन्नः । किं तु दशसु दिक्षु ।
द्वितीयाद्याः शब्दा दश उत्पद्यन्ते इत्येतन्मते विशेषः (३०० /
२।२।३७ ) । वायुगतेः समानत्वे प्रथमः पक्षः । असमानत्वं द्वितीय इति ।
बोध्यम् । वैयाकरणास्तु वर्ण: अकारादिः नित्यः इत्याहुः (न्या० म०४ /
पृ० ३१) (चि० ४ ) ( त० सं० ) ( सि० च० ) (त० ०/
(नील० ) । तन्मते वर्णानां नित्यत्वे प्रमाणमनुमानम् / तच वयो॑ ।
नित्यो ध्वन्यन्यशब्दत्वात् स्फोटवत् ( न्या० म० ४ पृ० ३१) इति //
तत्र अर्थबोधकशब्दं स्फोटात्मकमिच्छन्ति वैयाकरणाः । तथा च पचा-/
शद्वर्णा: अष्टाक्षरो मन्त्रः त्र्यक्षरो मन्त्रः अष्टाक्षरानुष्टुप् इत्यादिसंख्यामा
पपद्यते इति । तन्न सहन्ते वैशेषिकाः । पञ्चाशदादिसंख्यायाः सद्भावः /
कत्वगत्वादिजातित एवोपपद्यते इति न वर्णानां नित्यत्वम् इति (वै०)
 
4०४)//
 
२।२।३७ ) । शब्दो न प्रमाणम् इति सौगता आहुः (प्र० प्र०
 
प्र० ४ ) । अत्र मध्वमतानुयायिवेदान्तिनस्तु वेदान्तोपयोगित्वेनैवं शब्द
विभजन्ते । शब्दो द्विविधः प्रमाणशब्दः अप्रमाणशब्दव । तत्र प्रमाण
 
8