This page has not been fully proofread.

न्यायकोशः ।
 
८६५
 
-
 
ली०
 
च इति ( ल० म० ) । तन्न सहन्ते वैशेषिकाः । एकद्रव्यत्वान्न द्रव्यम्
(वै०
१० २/२/२३) इति । तदर्थस्तु शब्दो नद्रव्यम् । एकद्रव्यत्वा देकमा-
त्राश्रितत्वात् । न ह्येकमात्राश्रितं किमपि द्रव्यं प्रसिद्धम् इति ( वै० वि०
२।२।२३) । शब्दो नित्यः इति प्राभाकरा भट्टाश्चाद्दुः । एतन्मते शब्दस्य
नित्यत्वे प्रमाणमनुमानम् । तच्च शब्दो नित्यो व्योममात्रगुणत्वायोमपरि-
माणवत् इति । अथ वा शब्दो नित्यः । अद्रव्यद्रव्यत्वात् । प्रत्यभिज्ञानाच
इति च (न्या० म० ४ पृ० ३१) (त० प्र० ४ पृ० १२४) (न्या ०
१० गु० पृ० ४९ ) । अथ वा शब्दो नित्यः निःस्पर्श द्रव्यत्वादात्मव-
दिति । अत्रायमाशयः । सोयं गकारः इति प्रत्यभिज्ञाबलात् शब्दस्य, नित्य-
स्वम् । अस्यां प्रत्यभिज्ञायाम् एतत्कालीनगकारे पूर्वकालीनग काराभेदो
भासते । अतो नित्य इति भावः ( त० प्र० ख०ः ४ पृ० १२४) ।
• गकार उत्पन्न: विनष्टश्च इति प्रत्ययस्तु शब्दव्यञ्जकवायूत्पत्तिविषयक
एव इति ( न्या० म० ४ पृ० ३१ ) (३० २१ २ ३४-३५ ) ।
अत्र शब्दव्यञ्जकवायुरेवोत्पद्यते न तु शब्द उत्पद्यते इति भावः ( त०
प्र० ख० ४ पृ० १२४ ) । प्रयत्नेन शब्दमुच्चारयतः पुंसो वायुभे
• रुत्थितः उरसि विस्तीर्णः कण्ठे विवर्तितो मूर्धानमाहय परावृत्तो
● विचरन्नानाविधाञ्छब्दानभिव्यनक्ति इति मीमांसकसिद्धान्तः । नानावि-
धाञ्छब्दान् निष्पादयति इति तार्किकपाठ: ( म० प्र० : ४ पृ० ६४ ) ।
नैयायिकास्तु शब्दः अनित्यः इत्याहु: (वै० २१२/२८ ) । अयमा-
शयः । सोयं गकारः इति प्रत्यभिज्ञायां पूर्वकालीनग कारसा दृश्यमेवैतद्ग-
कारे भासते। यदि प्राभाकरमतानुरोध्यभेदो भासेत तदा सोमं घटः
इति प्रत्यभिज्ञायामध्यभेदस्यैव तुल्यन्यायेन भासनस्यावश्यकतया घट
• स्यापि नित्यत्वापत्तिः । अतः शब्दस्यानित्यत्वमेव । शब्दस्या नित्यत्वे
प्रमाणमनुमानम् । तच्च शब्दः अनित्यः सामान्यवत्वे सति बहिरिन्द्रिय-
जन्यलौकिक प्रत्यक्ष विषयस्वाल किक प्रत्यक्ष विशेष्यत्वाद्वा घटवत् इति
(गौ० वृ० २।२।१३ ) । तथा च सूत्रम् आदिमत्त्वादेन्द्रियकत्वात्कृत-
• कवदुपंचाराच ( गौ० २१२/१३) इति । शब्दोत्पत्तिविर्द्विधा केषां-
१०९ न्या० को०