2023-12-25 14:14:06 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

८६४
 
न्यायकोशः ।
 
लौकिक: शब्द आप्तोक्त एव प्रमाणभूतः । वैदिकस्तु सर्व एव प्रमाण-

भूतः । परमातेन भगवता प्रणीतत्वात् । प्रकारान्तरेणापि प्रमाण-

शब्दो द्विविधः दृष्टार्थः अदृष्टार्थश्च । तत्राद्यो घटोस्ति इत्यादिरूपः ।

द्वितीयः स्वर्गनरकापूर्वादिशब्दः इति । अप्रमाणशब्दस्तु वहिना सिञ्चेत्

गौरश्वः पुरुषो हस्ती इत्यादिरूपः इति । अत्र शब्दो न प्रमाणम् ।

शाब्दज्ञानं तु लैङ्गिकमेव । तथा च शब्दोनुमान एवान्तर्भवति इति

वैशेषिकमतम् (वै० ९।२।३ ) । वैशेषिकादीनामाशयस्तु प्रमाण-

शब्दव्याख्यानावसरे ( पृ० ५५४ ) प्रकटीकृतः । नैयायिकास्तु पृथ

गेव शब्दो मानम् । तत्र प्रमाणं सूत्रम् आप्तोपदेशसामर्थ्याच्छन्दादर्थसं

स्यार्थाव्याप्यत्वात् । न हि यत्र शब्दस्तत्र घटानयनादिरूपोर्थः इति

प्रत्ययः ( गौ० २।१।५२ ) इति । न त्वनुमानविधया मानम् / शब्द-

व्याप्तिः । शब्दस्याकाशवृत्तित्वात् । घटादेश्च तदवृत्तित्वात् (न्या० म०

४ ) । तथा च शब्दो ह्यतिरिक्तं प्रमाणम् । तच्च शब्दात्प्रत्येमि इत्यनुष्य-

वसायगम्यज्ञानस्य प्रत्यक्षानुमित्यादिप्रतीतितो विलक्षणत्वेन तादृशज्ञा-

वे ( त० दी० ) । अत्र शब्दस्य

च शक्तत्वमेव । अपभ्रंशादितः ( गाव्यगगर्यादिशब्दतः )

भ्रमाच्छाब्दबोधः इति नैयायिकमीमांसकादय आहुः ।

नामपि शक्तत्व मस्त्येव इत्याहुः ( वै० सा० शक्तिविचा० ।

यः शब्दो यत्रार्थे व्याकरणे व्युत्पादितः स तत्र साधुः । अपभ्रंशा

अत्र शब्दस्यार्थविशेषान्वयबोधने साधुत्वं च व्याकरणैकव्यक्जिका पुण्य

जनकतावच्छेदकजाति: (वै० सा० द० पृ० १०३) / शब्दो
 

साधुत्व
शक्ति
वैयाकरणा
 
पृ०
 
१५१/
 
णम शब्दो
द्रव्यम् इति भट्टमीमांसका आहुः । अत्रानुमानं प्रमाणम्
 
णम शब्दो
 

निरवयवेन्द्रियत्वात् मनोवत् इति च । गुणवस्खाच शब्दो द्रव्यम् ।

द्रव्यम् साक्षादिन्द्रिय संबन्धवेद्यत्वात् घटवत् इति । श्रोत्रं द्रव्यग्राहक /

संख्यादयोपि हि शब्दधर्मा अनुभूयन्ते ( न्या० ली० गु०१०

४९) । शाब्दिकास्तु शब्दमुभयस्वरूपमिच्छन्ति । तारत्वादयो गुणाः

शब्द निष्ठास्तदाश्रयत्वाच्छब्दस्य द्रव्यत्वम् आकाशरूपद्रव्याश्रयत्वा
 
.