This page has not been fully proofread.

न्यायकोशः ।
 
.
 
भागो निमित्तकारणम् (त० कौ० ) (बै० उ० २/२/३१ ) । शब्द-
जशब्दविषये तु वीचीतरङ्गन्यायेन कदम्बमुकुलन्यायेन वा ये द्वितीयादयः
शब्दाः ते शब्दजाः । तत्रोत्तरोत्तरशब्दे पूर्वपूर्वशब्दोसमवायिकारणम् ।
अनुकूलवातादिकं निमित्तकारणम् (त० कौ०) इति । वर्णात्मकः शब्दो
द्रव्यम् इति मध्वमतानुयायिन आहुः (प्र० प्र० पृ० ११) । वर्णात्मकः
पुनर्द्विविधः सार्थकः निरर्थकश्च । तत्र सार्थकः शब्दस्त्रिविधः प्रकृतिः
प्रत्ययः निपातश्चेति (श० प्र० श्लो० ६ ) । निरर्थकस्तु कचटतप
इत्यादिः । पुनरपि वर्णात्मको द्विविधः प्रमाणशब्दः अप्रमाणशब्दश्च ।
प्रमाणशब्द इत्यस्यार्थश्च शाब्दप्रमितिकरणज्ञानविषयः शब्द इति ( त०
प्र० प० ४ पृ० ६ ) ( त० कौ० ) (प्र० प्र० ) । अयमर्थश्च
शाब्दबोधं प्रति पदज्ञानस्य करणतामते संगच्छते । मणिकृतस्तु प्रयो-
गहेतुभूतार्थतत्त्वज्ञानजन्यः शब्द इत्याहुः (त० प्र० प० ४ पृ० ५ ) ।
यथाश्रुतार्थस्य शाब्दप्रमितिकरणरूपस्याङ्गीकारे स चार्थः शाब्दबोधं प्रति
ज्ञायमानं पदं करणम् इति मते संगच्छते इति विज्ञेयम् । प्रमाणशब्दत्वं
च शाब्दप्रमितिकरणत्वम् (न्या० म० ४ ) । इदं लक्षणं च ज्ञायमानं

पदं करणम् इति मताभिप्रायेणास्ति ( म० प्र० ४ ) । अथ वा
प्रकृतवाक्यार्थविषयकयथार्थशाब्दबोधविषयक तात्पर्यजन्यवाक्यत्वम्
( वाक्य० ४ ) । परे तु प्रमोपधायकशब्दत्वम् इति वदन्ति ( मू०
(म० १ ) । तत्र प्रमाणशब्द आप्तोपदेशः । तदर्थश्च
दृष्टयार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा । तस्य २०५
१।१।७ ) । अथ वा प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्दः ( चि०
४ ) । सोपि द्विविधः लौकिक: वैदिकश्च । तत्राद्यो लौकिकः
विधिनिषेधार्थवादभेदेन त्रिविधः । तत्र विधिर्यथा पार्क कुर्यात्
इत्यादिः । निषेधश्च इदमनिष्टं न कुर्यात् इत्यादिः । अर्थवादस्तु अयं
ब्राह्मणः स्वमहिम्ना सर्व जगत्पवित्रं करोति इत्यादिः स्वयमूह्यः
स्तीरे पञ्च फलानि सन्ति इत्यादिरूपो वा (प्र० प्र० ) । द्वितीयस्तु
वैदिकः पञ्चविधः विधिः मन्त्रः नामधेयम् निषेधः अर्थवादश्चेति । तत्र
 

 
तः यथ
 
शब्दः (वात्स्या
 
Vvvve Jy Tvvvv
 
Singhani
 
नद्या-
यथा-