2023-12-25 14:12:10 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोश: ।
 
८६१
 
कद्धान्तः । पृथिव्यादिषु पञ्चसु शब्दस्तिष्ठति इति सांख्या वेदान्ति-

नश्चाहुः । स्वतन्त्रास्तु भेर्यां शब्द: मृदङ्गे शब्दः इति व्यवहारात्पृथिव्यामेव

शब्दमिच्छन्ति ( सि० च० १ पृ० १८) । शब्दो न स्पर्शवद्विशेष-

गुणः । प्रत्यक्षत्वे सति अकारणगुणपूर्वकत्वात् । अयावद्द्रव्यभाविश्वात् ।

आश्रयादन्यत्र श्रोत्रदेशे उपलब्धेश्च । शब्दो गुणो भूत्वाकाशस्याधिगमे

लिङ्गम् ( प्रशस्त० पृ० ७) (मु० ख० १) इति । शब्दोम्बरगुणः

श्रोत्रप्रायः क्षणिकः कार्यकारणोभयविरोधी संयोग विभागशब्दजः प्रदे-

शवृत्तिः समानासमानजातीयकारणकः ( प्रशस्त ० गुणनि० पृ० ५५ )

इति । कार्यकारणविरोधीत्यस्यार्थश्च कार्यमुत्तरशब्दः । कारणं संयोगवि-

भागशब्दाः । एतदुभयेनाप्ययं विरुद्ध्यते इति । [ ख ] श्रोत्रप्राह्यो

गुणः । [ग] येनोच्चारितेन सास्नालाङ्गलककुदखुरविषाणिनां संप्र-

त्ययो भवति स शब्दः । स च शब्दो द्विविधः बुद्धिहेतुकः अबुद्धिहेतु-

कश्च । तत्र अबुद्धिहेतुको मेघादिशब्दः । बुद्धिहेतुकश्च द्विविधः स्वाभा-

विकः काल्पनिकश्च । उभयत्रापि ध्वनेरुपकारकत्वावन्यात्मकता । तत्र

स्वाभाविको वर्णविशेषान भिव्यञ्जको हसितरुदितादिरूपः प्राणिमात्रसाधा-

रणः । काल्पनिकोपि त्रिविधः वाद्यादिशब्दः गीतिरूपः वर्णात्मकश्च । तत्र

भेरीशब्दादिर्वाद्यादिशब्दः । माधवादिरागाभिव्यञ्जकनिषादादिस्वरशब्दो

गीतिरूपः । ध्वनिविशेषसहकृत कण्ठताल्वाद्यभिघातजन्यश्च वर्णात्मकः

( शब्दार्थरने०) (वाच०) । अन्यत्र चेत्थं विभाग उक्तः । शब्दो

द्विविधः ध्वन्यात्मकः वर्णात्मकश्च । तत्रायो भेरीमृदङ्गादौ प्रसिद्धः ।

द्वितीयः संस्कृतभाषादिरूपः शब्दः । अत्र भाष्यम् स च द्विविधः

वर्णलक्षणः अवर्णलक्षणश्च । तत्र अकारादिर्वर्णलक्षणः । ध्वनि-

क्षणश्चावर्णलक्षणः । अत्र पाठान्तरम् संख्या दिनिमित्तः अवर्ण-

लक्षणः इति ( प्रशस्त ० गुण० पृ० ५५ ) । तत्र वर्णलक्षणस्योत्पत्तिः ।

आत्ममनसोः संयोगात्स्मृत्यपेक्षाद्वर्णोच्चारणेच्छा । तदनन्तरम् प्रयत्नः ।

तमपेक्षमाणादात्मवायुसंयोगाद्वायौ कर्म जायते । स च वायुरू

गच्छन् कण्ठादी नभिहन्ति । ततः स्थानवायुयोगापेक्षात्स्थानाकाश-