2023-12-25 14:10:31 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
Nam
 
ग्रहो यथा स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः इत्यादिना नाकादि-

पदस्य स्वर्गे शक्तिग्रहः । गुणे झुक्कादयः पुंसि गुणिलिङ्गास्तु तद्वति

सुषीमः शिशिरो जड: चूर्णे क्षोदः इत्यादितश्च कोशाच्छक्तिग्रहः इति ।

( ४ ) आप्तवाक्यादपि शक्ति ग्रहो यथा कोकिल: पिकपदवाच्यः इत्या-

द्याप्तवाक्यात् पिकादिपदानां कोकिले शक्तिग्रहः इति । ( ५ ) व्यवहा-

रादपि शक्तिग्रहो यथा घटं नय गामानय इत्याद्यावापोद्वापाभ्यां पार्श्व-

स्थबालस्य घटादिपदस्य घटमात्रे शक्तिग्रहो भवति इति
व त । ( ६ ) वाक्य-

शेषादपि शक्तिग्रहो यथा यवमयश्चरुर्भवति इत्यत्र यवपदस्य दीर्घशूक विशेषे

कङ्गौ वा शक्तिः इति संदेहे वाक्यशेषाद्दीर्घशूक विशेषे शक्तिर्निर्णीयते । वा-

क्यशेषस्तु यत्रान्या ओषधयो म्लायन्ते अथैते मोदमाना इवोत्तिष्ठन्ति इति ।

वसन्ते सर्वसस्यानां जायते पत्रशातनम् । मोदमानाश्च तिष्ठन्ति यवाः

कणिशशालिनः ॥ (मु० ४ पृ० १७७) इति च । यथा वा खाराज्यकामो-

ग्निष्टोमेन यजेत इत्यादिविधिशेषीभूतेभ्यः यन्न दुःखेन संभिन्नं न च ग्रस्त-

मनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् ॥ इत्यादिवा-

क्येभ्यः स्वरादिपदस्य स्वर्गसुखादौ शक्तिग्रह: ( श० प्र० टी० पृ०

२४) । (७) कचित् विवरणादपि शक्तिग्रहो यथा घटोस्ति इत्यस्य कल-

शोस्ति इत्यनेन विवरणाद्धटपदस्य कलशे शक्तिग्रहः । यथा वा पचति

इत्यस्य पाकं करोति इत्यनेन विवरणादाख्यातस्य यत्नार्थकत्वं कल्प्यत

इति । कल्पनं तु ख्यातं यत्नत्वविशिष्टे शक्तम् यत्नःवविशिष्टशक्त करोति-

प्रतिपादितार्थप्रतिपादकत्वात् इति ( दि० ४ पृ० १७७) । (८)

प्रसिद्धपदस्य सांनिध्यादपि शक्तिग्रहो यथा इह सहकारतरौ मधुरं पिको

रौति इत्यादौ पिकपदस्य मधुरादिप्रसिद्धपदसांनिध्यात्कोकिले शक्तिग्रहः ।

यथा वा नीरूपः स्पर्शवान् वायुः निःस्पर्शे मूर्तिमन्मनः इत्यादौ

कृतां कन्यां ददानः ककुदः स्मृतः इत्यादावुक्तरीत्या कन्यादानादिषु

रूपशून्य स्पर्शवदादिषु वाय्वादिपदस्य शक्तिग्रहः ॥ यथा वा सत्कृत्यालं-

ककुदादिपदस्य शक्तिग्रह (मु० ४ पृ० १७७ ) ( श० प्र० लो०

१२० टी० पृ० २३-२४) इति । (१०) वेदान्तिनस्तु अङ्गुली-
20