This page has not been fully proofread.

८५८
 
न्यायकोशः ।
 
नशक्तिमत्त्वाचातुर्विध्यमेव रूढानाम् इति । यदुक्तं दण्ड्याचार्यैः ।
शब्दैरेव प्रतीयन्ते जातिद्रव्यगुणक्रियाः । च
उक्तश्चतुर्विधः ॥ इति । तदेतच्छब्दशक्तिप्रकाशे खण्डितम्
• जड मूक मूर्खादी नामन्यशून्यादीनां च शब्दानामपरिग्रहापत्त्या परित्यक्तम-
• स्माभिः ( श० प्र० लो० १८ टी० पृ० १७) इति । अपोहायें
शक्तिरिति बौद्धा मन्यन्ते । अत्रेदं बोध्यम् । प्रथमतः शक्तिब्रहो व्यव
हारात् घटानयनादिरूपात् भवति । तथा हि घटमानय इति केनचिद
प्रयोजकवृद्धेन नियुक्तः कश्चन प्रयोज्यवृद्धः तद्वाक्यतोर्ये प्रतीत्य घटमा
मिनोति । तेन च घटानयनगोचरप्रयत्नेन तस्य ज्ञानं घटानयनगोचरम्
नयति । तच्चोपलभमानो बालस्तया क्रियया तस्य प्रयोज्यत्य प्रयत्नभनु-
अनुमिनोति । स्वप्रयत्ने तेन तथा निश्चयात् । ततस्तद्धेत्वाकाङ्क्षायाद
उपस्थितत्वाच्छब्दमेव कल्पयति । तदनन्तरम् घटादिपदानां प्रत्येक
माबापोद्वापाभ्यां घटपदं घटवीजनकम् इति कल्पयति । कुते च
• तस्मिन् अतिप्रसङ्गभङ्गाय तज्जननानुकूलसंकेतरूपं संबन्धं कल्पयति ॥
• अत्रातिप्रसङ्गस्तु घटपदं घटघीजनकमिव पटधीजनकमपि स्यात् इति
 
अगृहीतशक्तिकानामपि घटबोध: स्यात् इति वा बोध्यः
शक्तिग्रहानन्तरम् उपमानादिभिः शक्तिहो भवति (न्या० माग
 
पृ० ५ ) । अत्रोक्तमभियुक्तैः । शक्तिग्रहं व्याकरणोपमानकोशातवाक्य
द्व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सांनिध्यतः सिद्धपदस्य
वृद्धाः ॥ ( मुं० ४ ) ( त० प्र० ४ पृ० ७३ ) इति ।
 
तत्र (१)
 
व्याकरणाच्छक्तिग्रहो यथा कर्मणि द्वितीया कर्तरि परस्मैपदम् इयतु/
शासनात्कर्मत्वाद द्वितीयादे: शक्तिग्रहः । धातुप्रकृतिप्रत्ययादीनां
गवादिपदशक्ति वीसाचिव्येन गोसादृश्यातिदेश वाक्याद्द्ववयपदवा
शक्तिग्रहो व्याकरणाद्भवति इति । ( २ ) उपमानाच्छक्तिग्रहो
इत्याकार: । गोसदृशो गवयपदवाच्यः इति सादृश्यज्ञानाद्रपद
धोत्तरं गवयत्वजात्यवच्छिन्ने गोसादृश्यग्रहात् गवयो गवयपदवाच्यः
गवये शक्तिग्रहो भवति इति वा । कचित्तु ( ३ ) कोशादपि शक्ति
 
t
 
तत आच
 
8
 
यथा