This page has not been fully proofread.

न्यायकोश: ।
 
८५७
 
प्रामाण्यम् इति मीमांसकसिद्धान्तः । जातौ व्यक्तौ चोभयत्र शक्तिः ।
किं तु जात्यंशे ज्ञाता व्यक्त्यंशे स्वरूपसंती प्रत्यायिका इत्यन्ये मीमांसका
आहुः । अत्राडुः गुरुमततत्त्ववेदिनः । विशिष्टगोचरा एकैव शक्तिः ।
किं तु जातिनिष्ठतया सा शक्तिः ज्ञातोपयुज्यते । व्यक्तौ सा स्वरूपसती ।
समानवित्तिवेद्यतया च व्यक्तेरपि भानम् इति ( न्या०सि० दी०
पृ० १२ ) । अत्र व्यक्तेरन्वयप्रकारतया भानम् इति गुरुमतैकदेशिन
आहुः । समासस्य विशिष्टार्थे शक्तिः इति शाब्दिका आहुः । तन्न ।
तंत्रावयवलक्षणयैवोपपत्तौ समुदायशक्तौ मानाभावः इति नैयायिकाः
प्राहुः । मीमांसकास्तु समुदाये ( वाक्ये ) लक्षणा । स्वबोध्यसंबन्धस्यैव
लक्षणापदार्थत्वादित्याहुः ( न्या० म० ख० ४ पृ० ११-१२ ) ।
गोपदस्य गोत्वे शक्तिः व्यक्तौ लक्षणा इति मण्डनमिश्राः स्वीचक्रुः ।
धातोश्च फलावच्छिन्नव्यापारे शक्तिः इति नव्यनैयायिकाः प्राहुः । फले
व्यापारे च पृथक् शक्तिः इति शाब्दिका आहुः । तदुक्तम् व्यापारो भा-
वना सैवोत्पादना सैव च क्रिया । कृञोकर्मकतापत्तेर्न हि यत्नोर्थ इष्यते ॥
(बै० सा० कारि० ५ पृ० २५) इति । फल एव शक्तिः इति मीमांस-
कविशेषाः मण्डनादयः आहुः । व्यापारे शक्तिः इति रनकोशकृतः प्राची -
नतार्किका: आहुः । तथा च क्रियामात्रं ( न तु फलावच्छिन्नम् )
धात्वर्थः इति प्राचां नैयायिकानामाशयः (ग० व्यु० का० २ ) ।
आख्यातस्य तु कृतौ शक्तिः इति नैयायिकाः प्रादुः । लः कर्मणि च
(पाणि० सू० ३।४।६९) इति सूत्रात् कर्तरि कर्मणि भावे च शक्तिः
इति शाब्दिका आहुः । व्यापारमात्रे शक्तिरिति मीमांसका आहुः । उत्पा-
•दकतायां शक्तिरिति रनकोशकृत आहुः । आलंकारिकास्तु जाति-
गुणक्रिया संज्ञार्थेषु चतुर्विधा शक्तिरित्याहुः । आलंकारिकमतं दर्शितं
• यथा जातिद्रव्यगुणस्पन्दैर्धमैः संकेतवत्तया । जातिशब्दादिभेदेन चातु-
विध्यं परे जगुः ॥ ( श० प्र० श्लो० १८) इति । तदर्थश्च गोगव-
यादीनां गोत्वादिजात्या पश्वाढ्यादीनां लाङ्गूलधनादिद्रव्येण धन्यपिशुना-
• दीनां पुण्यद्वेषादिगुणेन चलचपलादीनां च शब्दानां कर्मणा अवच्छि-

 
१०८ न्या० को०