This page has not been fully proofread.

८५६
 
न्यायकोशः ।
 
1
 
• वाच्यम् इत्याहुः ( प्र० च० ४ पृ० ३८) । जात्याकृतिव्यक्तिषु
• तिसृषु शक्तित्रयम् इति शाब्दिका मन्यन्ते । आकृतावेव शक्तिः इति
• पतञ्जलिप्रभृतय आहुः । जातावेव शक्तिर्व्यक्तिलाभस्त्वाक्षेपात् इति
1 तौतातिता ( तुतातभट्टानुयायिनः ) प्राभाकराः कुमारिलभट्टादयश्चातुः ।
2 अयं भावः । गोत्वं हि स्वाश्रयं विना अनुपपन्नम् इति स्वाश्रयम् आक्षि
पति इति । अत्र अर्थापत्तिराक्षेपः इति भट्टमतम् । समानवित्तिवेद्यत्व-
माक्षेपः इति प्राभाकरमतम् इति विज्ञेयम् ( न्या० म० ४५० ६ ) /
अत्र व्यक्तेः प्राधान्यानुभवाल्लक्षणा व्यक्तौ । आक्षेपे तूपसर्जनता स्यात्
इति भट्टैकदेशिन आहुः । अत्रोक्तं भट्टपादैः आनन्त्यव्यभिचाराभ्यां
शक्त्यनेकत्वदोषतः । न व्यक्तावाकृतौ तु स्यात्सर्वमेतत्समञ्जसम् ॥ अन्व
यव्यतिरेकाभ्यामेकरूपप्रतीतितः । आकृतेः प्रथमं ज्ञाने तस्या एवा.
। भिधेयता ॥ व्यत्तयाकृत्योरभेदाच्च व्यवहारोपयोगिता । लिङ्गसंख्याि
• संबन्ध: सामानाधिकरण्यधीः ॥ सर्वोपपन्ना च यतस्तस्मात्तत्रैव कल्पयेत्
नै० सू० वृ० अ० १ पा० ३ सू० ३५) इति । पदानामन्वयवि-
शिष्टे शक्तिः इत्यप्याहुः । अयं भावः । जातौ अन्विते (अन्वय विशिष्ट
• वाक्यार्थे ) चाभिधारूपा शक्तिः इति । तत्र प्राभाकरास्तु सिद्धार्थस्या.
• नुभावकत्वं नास्ति इति कार्यत्वान्वितव्यक्तौ ( इतरान्विते )
इत्याहुः ( त० दी० पृ० ३२) । अत्रोपहसितं श्रीहर्षमिश्रैः गुरुषि
यमभावस्य स्थाने स्थानेभिषिक्तवान् । प्रसिद्ध एव लोकेस्मिन् बुद्धबन्ध
प्रभाकरः ॥ इति । न्यायसिद्धान्तमञ्जरीकारः स्वयमप्युपजहास प्रता-
• युक्तमुत्पश्यामः इति ( न्या० म० ४ पृ० ९) । अत्रायमर्थः प्रतारका
-रको वर्णव्यत्यासलिपिसादृश्याभ्यां प्रभाकरः इति गृहीतो लोकैः इति
• इत्यत्र रेफककारयोर्व्यत्यासः । तकारलिप्यां भकारसादृश्यम् ।
• वाक्यानां कार्यतावाचकलिङाद्यघटितत्वेन कार्यत्वाद्यबोधकत्वाच्छान्दा
करः इति लोके प्रसिद्धः ( म० प्र० ४ पृ० ४० ) इति । अर्थवाद
• भवजनकत्वाभावेनाप्रामाण्यमेव इति तन्मतम् (न्या० म०४ ) (70
प्र० ४ पृ० २९) (चि० ४ ) । विध्येकवाक्यतया अर्थववाद
 
शक्ति
 
तेन प्रभा-