न्यायकोशः /91
This page has not been fully proofread.
न्यायकोशः ।
वा योन्तः सहचार: अव्यभिचरितसहचार एकान्तः । तद्वानैकान्तिकः
(गौ० दृ० १।२।४६ ) । अनैकान्तिकः सव्यभिचारशब्देन व्यवह्रियते ।
वैशेषिकमते तु संदिग्ध इत्युच्यते च इति बोध्यम् । अनैकान्तिकलक्षणं
च साधारणाद्यन्यतमत्वम् (मु० ) ( वाक्य ० ) । अथवा सव्यभिचार-
त्वात्मकदोषवत्त्वम् । शिष्टं सर्वं तु सव्यभिचारलक्षणव्याख्यानावसरे संपा-
दयिष्यते । एकमात्रव्याप्तिग्राहकसहचारवानैकान्तिकः । तदन्योनैकान्तिकः
८० ( गौ० वृ० ११२४६) । निदर्शनम् [क] नित्यः शब्दः अस्पर्शत्वा-
-दित्यत्रास्पर्शत्वादित्यनैकान्तिको हेतुर्बोध्यः । तथा हि-यत्र नित्यत्वाभावो
नामानित्यत्वं तत्रास्पर्शत्वाभावो नाम स्पर्शवत्वम् । यथा कुम्भः । तत्र हि
स्पर्शवत्त्वमनित्यत्वं च । तथा यत्रास्पर्शत्वं तत्र नित्यत्वं यथा आत्मा । एवं
द्विविधदृष्टान्तसंभवेपि उभयोरपि बुद्धौ व्यभिचारः । तथा हि – बुद्धावनि-
त्यत्वेपि स्पर्शवत्वं नास्ति तथा अस्पर्शत्वेपि नित्यत्वं नास्तीति सव्यभिचार-
त्वादनैकान्तिकः । एवं चात्र नित्यत्वमध्येकोन्तः । अनित्यत्वमप्येकोन्तः ।
एकस्मिन्नन्ते विद्यत इत्यैकान्तिकः । विपर्ययादनैकान्तिकः । उभयान्तव्या-
पकत्वादिति वात्स्यायनभाष्ये (१।२।४६ ) स्पष्टम् । [ ख ] यस्माद्विषाणी
तस्माद्गौरिति चानैकान्तिकस्योदाहरणम् ( वै० ३।१।१७ ) । [ग]
यथा वा घूमवान्वहेरित्यत्र वहिरनैकान्तिकः ( त० सं ) । साध्यसंदेहजन -
कपक्षधर्मताज्ञानविषयोनैकान्तिकः (वै० वि० ३१ । १५ ) ( त० व० ) ।
इदं लक्षणं पूर्व च प्राचीनमतानुसारेणोक्तमिति ज्ञेयम् । नवीनमतानुसारेण
लक्षणं तु सव्यभिचारत्वशब्दव्याख्यानावसरे संपादयिष्यते । साध्यसंदे-
हश्च त्रिविधः । पक्षे सहचरत्वाद्वा साध्यतद्रहितत्वयोः । सामान्याद्वा विशे-
बादा संशयो भवति त्रिधा । तदर्थश्च – साध्यतदभावयोः पक्ष एव
हेतुसाहचर्यदर्शनात् संशयो भवति । यथा सर्वमनित्यं प्रमेयत्वादित्यादौ ।
( अयमनुपसंहारी ) । सामान्यधर्मदर्शनादपि संशयो भवति । यथा घटः
क्षितित्ववान् द्रव्यत्वादित्यादौ । द्रव्यत्वं हि क्षितित्ववति घंटादौ तदभाव-
वति जलादौ च वर्तत इति साधारणधर्मदर्शनादेवात्र संशय इति ।
(अयं साधारणानैकान्तिकः) । विशेषधर्मदर्शनादपि संशयो भवति । यथा
३७
4