2023-12-25 12:19:49 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

८५४
 
न्यायकोशः ।
 
एकसंबन्धिज्ञानमपरसंबन्धिस्मारकम् इति रीत्या पदार्थस्मारिका । तथा

चायमर्थः । येन रूपेण चोपस्थितयोः पदपदार्थयोः संबन्धज्ञानम् तद्रः
 

पावच्छिन्नज्ञानात्संबन्धांश उद्बुद्धसंस्कारसहकृतात्तद्रूपावच्छिन्न स्मरणम् ।

यथा हस्तिहस्तिपकयोः पाल्यपालकभावसंबन्धज्ञानेन हस्तिज्ञानाद्धस्तिप

कस्मरणम् ( त० प्र० ख० ४ पृ० ३३ ) । तथा च शक्तिग्रहः शाब्द-

बोधजनिकायां पदजन्यपदार्थोपस्थितौ सहकारी भवति ( न्या० म०

४ ) इति । पदपदार्थयोः संबन्धश्च [क] इदं पदममुमर्थ बोधयतु

( त० सं० ) । तदर्थश्व एतत्पदजन्यबोधविषयोयमर्थः इत्याकार

इत्याकारक ईश्वरसंकेतः (मु० ४ ) ( न्या० म० ४ पृ०३)

केश्वरेच्छा शक्तिः ( नील० ) इति । एतत्पदजन्यत्व प्रकारतानिरूपि

तैतदर्थबोधविशेष्यताशालीच्छा इति वा ( त० प्र० ख० ४१०

१४ ) ( ग० शक्ति ० ) । अत्र ईश्वरसंकेतो नामेश्वरेच्छा ( न्या० बो०

४ पृ० १९ ) । ईश्वरसंकेत इत्यस्यायं भावः । द्वादशेहनि पिता न
 

कुर्यात् इति श्रुतिः । तथा च द्वादशाहः कालीन पित्राद्यच्चारितनामत्वादिया।

नामवाच्यः शिशुः इत्याकारकेच्छयेश्वरेण तादृशश्रुतिप्रणयनादाधुनिक

संकेतित चैत्रादिशब्देषु ईश्वरसंकेतोस्त्येव (त० प्र० ४ पृ० १५) इति ।

[ख] अस्माच्छब्दादयमर्थो बोद्धव्यः इत्यनादिसंकेतः ( त० कौ० //
 

यथा घटाद्यर्थविशेष्यक घटा दिपदजन्य बोधविषयत्वप्रकारक ईश्वरसंकेत

( न्या० बी० ४ पृ० १९ ) । ग इच्छामात्रं शक्तिः इति नव्या

आहुः (मु० ४) ( वात्स्या० २११/५४ ) । तथा च ईश्वरसंकेत एव

न शक्तिः । किं त्वभियुक्तसंकेतमात्रं शक्तिः इति ( म०प्र० 840

३८ ) । आधुनिकेतु संकेतिते न शक्तिः इति संप्रदायः /
 

ईश्वरेच्छैव न शक्तिः । किं तु इच्छैव । तेन आधुनिकसंकेतितेपि सास्ति

इति वदन्ति (मु० ४ ) । [घ मीमांसकास्तु अभिधा ;
नाम पदा
र्थान्तरं संकेतग्राह्यम् शक्तिः इत्याहुः ( न्या० म० ३ ) ( त० ५
 
नाम पदा
 
)
 

( ग० शक्ति ० ) । संकेतग्रहजन्यग्रहविषयः इत्यर्थः ।
 
नव्यास्तु
शब्दसहकारिग्रह विषयः इति ज्ञेयम् (त० प्र० ४ पृ० १४)।
 
नव्यास्तु