This page has not been fully proofread.

न्यायकोशः ।
 
८४९
 
३ प्रयोजनम् । यथा एतद्विशेषणदानस्य व्यावृत्तिः कथ्यते इत्यादौ
व्यावृत्तिशब्दस्यार्थः प्रयोजनम् ।
 
-
 
व्यासः - १ विस्तारः ( अमरः ३ । २ । २२ ) । यथा समासव्यासयोगतः
इत्यादौ ( प्र० च० परि० २ पृ० ५४ ) । २ वैयाकरणास्तु [क]
समासादिसमानार्थकं विग्रहवाक्यम् । यथा राजपुरुष इत्यत्र राज्ञः पुरुषः
इति व्यासवाक्यम् इत्यादौ व्यासशब्दस्यार्थः । [ख] पदानां समासा -
भावः इत्यप्याहुः । ३ सत्यवत्यां पराशराज्जातः श्रीनारायणस्य सप्तदशो-
बतारविशेषः ( ब्रह्मवै० पु० अ० ४) । यथा व्यासो नारायणः
साक्षात् इत्यादौ व्यासशब्दस्यार्थः । स च उत्सन्नशाखं प्रनष्टं च वेदं
• संकलितवान् अष्टादश पुराणानां ब्रह्मसूत्राणां च कर्ता इति विज्ञेयम् ।
तदुक्तम् अष्टादशपुराणानां कर्ता सत्यवतीसुतः इति । भागवते चोक्तम्
ततः सप्तदशे जातः सत्यवत्या पराशरात् । चक्रे वेदतरोः शाखा दृष्ट्वा
पुंसोल्पमेधसः ॥ ( भाग० १।३।२१) इति । ४ ततोन्यो मुनिविशेषः ।
तत्रोक्तम् प्रह्लादनारदपराशरपुण्डरीक व्यासाम्बरीषशुकशौनक भीष्मदा-
ल्भ्यान् । रुक्माङ्गदार्जुनवशिष्ठ विभीषणादीन् पुण्यानिमान्परमभागवतान्
स्मरामि ॥ इति । ५ मानविशेष: (परिमाणम्) ( शब्द० २० ) । ६
लीलावतीकारस्तु वृत्तक्षेत्रस्य मध्यस्थरेखा । यथा व्यासे भनन्दाग्निहते
इत्यादौ इत्याह । ७ पौराणिकास्तु पुराणपाठको विप्र इत्यागः । तदुक्तम्
य एवं वाचयेद्विप्रः स ब्रह्मन् व्यास उच्यते इति ।
 
Te
 
व्यासङ्गः -[क] कार्यान्तरत्यागेनैकपरत्वम् । [ख ] मनसो विषयान्त-
• रानासक्तिः । [ग] इन्द्रियाणां स्वस्वविषयसंबन्धे सति यत्किंचिदि-
न्द्रियजन्यज्ञाने सत्यपीन्द्रियान्तरजन्यज्ञानाभाव इति केचिद्वदन्ति ।
व्यासज्यवृत्तित्वम् - १
 
स्वसमानाधिकरण भेद प्रतियोगितावच्छेदकत्वम्
 
-
 
( ग० २ चतु० मिश्र० ) । समानाधिकरणभेद प्रतियोगितावच्छेदकत्व
• तादात्म्य एतदुभयसंबन्धेन यत्किंचित्पदार्थविशिष्टत्वम् इत्यर्थः । यथा
उभयत्वस्य व्यासज्यवृत्तित्वम् । २ अपेक्षाबुद्धिविशेषविषयत्वम्
 
१०७ न्या० को०
 
-