2023-12-25 12:13:55 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
८४७
 
पृ० १६२ ) । व्याप्यत्वासिद्धिश्व साध्याप्रसिद्धि साधनाप्रसिद्धि अव्यभि-

चरितसामानाधिकरण्याभाव इत्यादिभेदेनानेकविधा ( दीधि० २ पृ०

२१८ ) ( गौ० वृ० ११२१८) (मु० ) ( दि० २ पृ० १६२ )

(वै० वि० ३ । १ । १५ ) । तथा च साध्याप्रसिद्धिहेत्वप्रसिद्धिसाधना-

प्रसिद्धिव्य।प्तिविशिष्टपक्षधर्मतादिविरहादयश्च व्याप्यत्वासिद्धिप्रमेदा एव

नातिरिक्ताः ( दीधि ० २ पृ० २१७-२१८) ( न्या० म० २ पृ०

२१ ) । व्याप्यत्वासिद्धिव्याप्योपि व्याप्यत्वासिद्धिरेव न पृथग्भूतः इति ।

शिष्टं तु हेत्वाभासशब्दव्याख्याने दृश्यम् ।
 

 
<
व्याप्यवृत्तित्वम्>
[ क ] प्राचीनमते स्वसमानाधिकरणात्यन्ताभावाप्रति-

यत्वम् ( ० ) । यथा घटत्वद्रव्यत्वादीनां व्याप्यवृत्तित्वम् ।

[ख] नवीनमते तु अनवच्छिन्नाधारतावत्वम् ( ग० पक्ष० ) [ग]

निरवच्छिन्नवृत्तिकत्वम् (ग० २ चक्र० ) । यथा रूपस्य व्याप्यवृत्ति-
त्वम् ।
 

त्वम् ।
 
<
व्यावर्तकम्>
१ आश्रयाणां परस्परमेदानुमितिजनकम् । यथा विशेषस्त-

तत्परमाणूनां व्यावर्तकः । तथा हि । अयं पृथिवीपरमाणुरितरपरमा-

भ्यो भिद्यते एतद्विशेषात् इत्यनुमाने विशेषस्य हेतुत्वं बोध्यम्

( वाक्य० पृ० २२ ) । यथा वा सास्नादिमत्त्वं महिष्यादेर्व्यावर्तकम् ।

इतरमेद विधेयकानुमितिजनकतावच्छेदक विषयता विशेषाश्रयः इति तदर्थः

( नील० १ पृ० ४ ) । २ कचित् विशेष्यतावच्छेदकसमानाधिकर-

णाभावप्रतियोगि । एतच्च व्यावर्तकं द्विविधम् विशेषणम् उपलक्षणं

। तत्राद्यं यथा पुरुषादौ वर्तमानकालावच्छेदेन विद्यमानो
 
चेति
 

दण्डादि: । द्वितीयं यथा जटाभिस्तापस इत्यादौ तापसादेः कालान्तरी-

णजटादिकं व्यावर्तकम् ( ग० व्यु० का० ३५०९१) । शिष्टं तु
a

तृतीया विशेषण उपलक्षण एतच्छन्दव्याख्यानेषु दृश्यम् ।
 

 
<
व्यावहारिकम्>
( सत्त्वम् ) व्योमादेर्व्यावहारिकम् ( सर्व० सं० पृ०
 

४४६ शां० ) ।
 
-