2023-10-18 08:41:33 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
नान्तरीयकत्वं च तत्सत्तानियतसत्ताकत्वम् । [ ख ] अन्यार्थं प्रवृत्तस्य

नान्तरीयकफलजनकत्वमित्यपि केचिदन्ति ।
 

 
<
अनुसंधानम्- >
उपनयशब्दवदस्यार्थोनुसंधेयः ( प्रशस्त ० २ पृ० २८) ।
अनेकत्वम् -

 
<अनेकत्वम्>
१ एकत्वभिन्नसंख्याविशिष्टत्वम् ( दि० गु० १९२ ) । यथा -

अनेके ब्राह्मणाः सन्तीत्यादौ ब्राह्मणानामनेकत्वम् । २ अपेक्षाबुद्धिविशे-

षविषयत्वम् । यथा - अस्मिन्द्रव्येनेके गुणाः सन्तीत्यादावनेकत्वम् ।

 
<
अनेकद्रव्यलम्
>
अत्र अनेकं द्रव्यमाश्रयो यस्य तदनेकद्रव्यम् । तस्य भावः
-

इति विग्रहः (वै० उ० ४।१।६ ) । [ क ] अनेकद्रव्याश्रिताश्रित-

त्वम् । स्वसमवेतसमवेतत्वसंबन्धेन नानांद्रव्यवत्त्वमित्यर्थः ( राम० १ ) ।

तद्यथा स्वशब्देन परमाणवो गृह्यन्ते । तत्समवेतं द्व्यणुकम् । तत्समवेतत्वं

त्र्यणुके वर्तत इति अनेन संबन्धेन परमाण्वात्मकनानाद्रव्यवत्वं त्र्यणुके-

स्तीति त्र्यणुकादीनामनेकद्रव्यत्वं विज्ञेयम् । [ ख ] अवयवबहुत्वा-

घीन महत्त्वाश्रयत्वम् (बै० उ० ४।११६ ) । [ग] अनेकसमवे-

तसमवेतत्वम् (वै० वि० ४।१।६ ) । [ घ ] पारिमाण्डल्याभाव-

विशिष्टद्रव्यत्वम् ( सि० च० २० ) । [ ङ ] अणुभिन्नद्रव्यत्वम् ( दि०

१।५४ ) । यथा प्रत्यक्षे महत्वं कारणम् । अनेकद्रव्यत्वमन्यथा सिद्धम्

( मुक्ता ० १९५४ ) इत्यादौ त्र्यणुकादिघटपर्यन्तानामनेकद्रव्यत्वम् ।

 
<
अनेकाश्रितगुणत्वम्>
[क] एकत्वभिन्नसंख्या विशिष्टधर्मिवृत्तिगुणत्वम् ।

अनेकाश्रितगुणाश्च संयोगो विभागो द्वित्वादिकाः संख्या द्विपृथक्त्वादयः

( भा० प० गु० ) । [ ख ] स्वाश्रयप्रतियोगिकान्योन्याभावसमानाधि-

करणगुणत्वमिति केचिदन्ति (दि० गु० १९२) । घटः पटेन संयुक्तः

इति व्यवहारात्संयोगस्य द्विष्ठत्वं प्रतीयते । तथा च स्वं संयोगस्तदाश्रयो

घटस्तत्प्रतियोगिको योन्योन्याभावः ( घटभेदः ) तत्समानाधिकरणत्वं

( तदाश्रयः पटस्तद्वृत्तित्वं ) संयोगे वर्तत इति संयोगादीनामनेकाश्रितत्वं

( अनेकवृत्तित्वम् ) संभवतीति बोध्यम् ( कि० टी० ) । [ग] एक-

त्वानवच्छिन्नवृत्तिकगुणत्वमित्यपि कश्चित् ( ल० व० ३६ ) ।

 
<
अनैकान्तिकः>
(हेत्वाभासः) अत्र व्युत्पत्तिः । एकस्य साध्यस्य तदभावस्य
 
-
 
३६
 

 
-