न्यायकोशः /899
This page has not been fully proofread.
न्यायकोशः ।
८४५
व्यभिचारितासंबन्धेन तादृशोपाधिविशिष्टं वह्निमत्त्वं व्याप्यत्वासिद्धम्
इति भावः । उपाधित्वज्ञानेन व्यभिचारानुमित्या व्याप्तिग्रहप्रतिबन्धः
फलम् ( वाक्य ० २ पृ० १८) । अत्रानुमानप्रकारच वह्निर्धूमव्यभि-
चारी धूमव्यापकार्द्रेन्धनसंयोगव्यभिचारित्वाद्धटत्वादिवत् । यो यद्ध्याप-
कव्यभिचारी सोभिचारी भवतीति ( न्या० बो० २-१८) ।
अत्र च पक्षस्यैव विपक्षत्वप्राध्या तत्र विद्यमानो हेतुरनै कान्तिकोपि भवति
इति मतान्तरम् ( प्र० च० पृ० ३२ ) ( प्र० प्र० ) । अत्रायमर्थः ।
धूमव्यापकत्वमार्द्रेन्धनसंयोगे गृहीतं चेत् धूम आर्मेन्धनसंयोगव्याप्यत्वं
तुल्यवित्तिवेद्यतया गृह्यते । एवम् बहेरव्यापकत्वमार्द्रेन्धनसंयोगे गृहीतं
चेत् वह्नौ तदव्याप्यत्वं गृह्यते । तदेव व्यभिचरितत्वम् । अर्थात् उपा-
धिव्यभिचरितत्वं साधने गृहीतं चेत् उपाधिभूतार्द्रेन्धनसंयोगव्याप्यधू-
मव्यभिचरितत्वं गृह्यत एव इति । एवं च प्रकृतानुमानहेतुभूतपक्षे वहौ
साध्यव्यभिचारोत्थापकतया दूषकत्वमुपाधेः फलम् । तथा च धूमाभा-
ववदवृत्तित्वाभावरूपे धूमव्यभिचारे गृहीते वहौ धूमाभाववदवृत्तित्वरू-
ama
पव्याप्तिज्ञानप्रतिबन्धः फलम् । न च व्याप्यत्वासिद्धेर्व्यभिचाराभेद इति
वाच्यम् । धूमाभाववद्वृत्तित्वाभावाभावत्वेन व्याप्यत्वासिद्धित्वम् घूमाभावव
द्वृत्तित्वत्वेन व्यभिचारत्वम् इति मेदात् (न्या० बो०२ पृ०१८–१९) ।
शिष्टं तु उपाधिशब्दव्याख्याने दृश्यम् । वेदान्तिनस्तूदाजहुः । व्याप्य-
त्वासिद्धो द्विविधः साध्यसंबन्धरहितः सोपाधिकसंबन्धश्च । तत्रायो यथा
• सर्वं क्षणिकं सत्त्वात् इति । अत्र सर्वस्य पक्षत्वेन पक्षातिरिक्तसपक्षा-
भावात् साध्यसंबन्धाभावो ज्ञेयः। द्वितीयो यथा वैधी हिंसा पापसाधनं
[हिंसात्वा हिंसावत् इति । अत्र हिंसात्वपापसाधनत्वयोः संबन्धे
निषिद्धत्वमुपाधि: ( प्र० च० पृ० ३१ ) ।
व्याप्यत्वासिद्धिः – ( हेत्वाभासः हेतुदोषः ) [ क ] आश्रयासिद्धि
स्वरूपासिद्धि एतदुभयमेदद्वयविशिष्ट सिद्धिः ( म० प्र० २ पृ०
(२७) । यथा वह्निसाध्य कधूलिपटले धूमनिष्ठव्याप्त्यभावो व्याप्यत्वासिद्धिः
( न्या० म० २ पृ० २१ ) । [ख] सविषयवृत्तिप्रकृतसाध्यसाधन-