2023-12-25 10:36:45 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
साध्यसंबन्धोवच्छिद्यते स एव तत्र साधने विशेषणमुपाघिः इति वदन्ति ।

अत एव च साधनाव्यापकत्वे सति साधनावच्छिन्नसाध्यव्यापकत्वं

लक्षणं ध्रुवम् ( चि० २ पृ० ८ ) । अत्रेदं बोध्यम् । उपपत्तिः

युक्तिः । लिङ्गम् व्याप्यम् व्याप्तम् इति पर्याय: ( प्र० प० पृ० ११

टी० पृ० २९ ) (प्र० च० पृ० १९ ) इति । [ग] यत्समाना-

धिकरणान्योन्याभावप्रतियोगिता येनावच्छिद्यते तत् तस्य व्याप्यम्

( न्या० सि० दी० पृ० ५६ ) । यथा अयोगोलकाद्यन्तर्भावेन वह्नि-

समानाधिकरणान्योन्याभावप्रतियोगिता धूमेनावच्छिद्यत इति धूमो वहे-

र्व्याप्यः । [ घ ] व्यभिचारित्वाभावः । यथा सोपाधिको व्याप्यत्वासिद्धः

इत्यादौ व्याप्यत्वशब्दस्यार्थ: ( न्या० बो० ) । २ [क] न्यूनवृत्ति-

त्वम् । यथा द्रव्यत्वव्याप्या जातिः इत्यादौ व्याप्यत्वशब्दस्यार्थः ।

[ख] अल्पदेशवृत्तित्वम् । यथा द्रव्यत्वस्य सत्तापेक्षया व्याप्यत्वम्

( अपरत्वम्) (मु० १ पृ० ३७ ) ।
 
ब्

 
<व्
याप्यत्वासिद्धः>
( हेत्वाभासः ) [ क ] यत्र व्याप्तिर्नावगम्यते सः

( त०] भा० पृ० ४७ ) । स चासिद्धप्रभेदः इति बोध्यम् । लक्षणं तु

वक्ष्यमाणा व्याप्यत्वासिद्धिरेव । व्याप्तेरग्रहो द्विधा संभवति । तदुच्यते ।

सत्या एव कचिद्व्याप्तेरग्रहात्कुत्रचित्पुनः । व्याप्तेरभावा दित्यस्य द्वैविध्यं

तद्विदो विदुः ॥ ( त० व० २/३ । ४४ ) इति । ख साध्य -

व्याप्यतावच्छेदकरहितो हेतुः । यथा पर्वतो वह्निमान् काञ्चनमयधू-

मादित्यादौ हेतुर्व्याप्यत्वासिद्धः ( प्र० प्र० ) ( त० कौ० २ १०

१५ ) । अत्र च व्याप्यतावच्छेदकत्वेनाभिमतं काञ्चनमयत्वम् तद्भूमे
 
W
 

नास्ति इति धूमो हेतुर्व्याप्यत्वासिद्धः । एतज्ज्ञानं च परामर्शप्रतिबन्ध-

कम् । धूमे काञ्चनमयत्वं नास्ति इति ज्ञाने सति वह्निव्याप्यकाञ्चनमय-

धूमवान् पर्वतः इति परामर्शासंभवात् । एतस्य परामर्शस्य धूमे काञ्च-

नमयत्व संबन्धावगाहित्वात् ( त० कौ० २ पृ० १५) इति । तथा च

इति भावः । अत्र प्रसङ्गत इदं विज्ञेयम् । स्वसमानाधिकरण व्याप्यता-

अनुमिति प्रतिबन्धकताघटितं हेत्वाभाससामान्यलक्षणमसिद्धहेतौ संपद्यते
 
w