This page has not been fully proofread.

न्यायकोशः ।
 
वचनं पूर्व व्यापकस्य ततः परम् । एवं परीक्षिता व्याप्तिः स्फुटीभवति
तत्त्वतः ॥ इति । यत्र धूमस्तत्राग्निः इति साहचर्यनियमो व्याप्तिः ।
एतद्वाक्ययोजना विस्थम् । यत्र धूमस्तत्राग्निः इतीत्यत्र इतिपदं तादृ-
शवाक्यपरम् । तत्तात्पर्यग्राहकं यत्रेत्यादि वाक्यम् । इतिपदार्थस्य
च बोध्यतासंबन्धेन साहचर्यनियमेन्वयः (वाक्य ० २ पृ० १३) इति ।
साहचर्यनियम इत्यस्यार्थश्च साहचर्य सामानाधिकरण्यम् । तस्य नियमः ।
हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यम् इत्यर्थः
( त० दी० २ पृ० २० ) । तथा च हेतौ नियतसामानाधिकरण्यम् ।
तच्च साधनव्यापकसामानाधिकरण्यम् ( दीधि० २) (प्र० प्र०) ।
एवं च हेतोर्व्यापकं यत्साध्यं तरसामानाधिकरण्यं हेतौ व्याप्तिः इति
सुगमः पर्यवसितोर्थः । यथा पर्वतो वह्निमान् घूमादित्यादौ सद्धेतौ
धूमस्य व्यापको वह्निः तत्सामानाधिकरण्यं धूमे वर्तते इति लक्षणसम-
न्वयो बोध्यः । अत्र घूमसमानाधिकरणो योत्यन्ताभावः घटात्यन्ताभावः
न तु वह्नयत्यन्ताभावः । तथा च तदप्रतियोगी वह्निः तःसामानाधिकरण्यं
धूमे वर्तते । धूमवांन्वहेरित्यादौ असद्धेतौ तु धूमसामान्याभाव-
स्यापि हेतुसमानाधिकरणतया तत्प्रतियोग्येव धूमः इति नातिव्याप्तिः
( नील० २ पृ० २० ) । अथ वा नियतसाहचर्ये व्याप्तिः । नियतत्वं
व्यापकत्वम् । साहचर्य सामानाधिकरण्यम् । तथा च धूमनियतवहिसा-
मानाधिकरण्यम् (न्या० बो० २ पृ० १४ ) इति । यद्वा साहचर्य
साध्यनिष्ठहेतुसामानाधिकरण्यम् । तन्नियमस्तन्मात्रसत्त्वम् । तद्विरोभ्य-
• सत्त्वम् इति यावत् । तथा च साध्यनिष्ठहेतुव्यापकत्वं स्वाश्रयसामानाधि-
1: करण्यसंबन्धेन हेतुसंबद्धम् । व्यापकताश्रयसामानाधिकरण्यम् इति पर्यव
सितोर्थः (वाक्य० २ पृ० १३) । वेदान्तिनस्तु साहचर्य हेतोः साध्येन
संबन्धमात्रम् । तस्य नियमो नियतत्वम् । अव्यभिचरितसंबन्ध इत्यर्थः
इत्याहुः ( प्र० च० पृ० २९) । टीकाकृतो वेदेशतीर्थचरणास्तु
साहचर्ये स्वदेशकालविशेषगतस्य हेतोः स्वदेशकालविशेषगतेन साध्येन
अघोदेशनदी पूरादाव-
संबन्धमात्रम् । न तु सामानाधिकरण्यम् ।
 
१०६ न्या० को●