2023-12-25 10:34:15 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
तथा अवच्छेदकत्वमिह पारिभाषिकमेव प्रतियोगितावच्छेदकानतिरिक्त-

वृत्तित्वरूपं ग्राह्यम् । तच्च तदवच्छिन्न
 
प्रतियोगिताकाभाववदसंबद्धस्वविशि-

ष्टसामान्यकत्वम् । अथ वा स्वविशिष्टसंबन्धिनिष्ठाभावप्रतियोगितानवच्छे-

दकतत्कत्वम् । यद्वा स्वविशिष्ट संबन्धिनिष्ठाभावप्रतियोगितानवच्छेदका-

२ वच्छेद्यत्वम् (दीधि ० २ अवच्छेदकनिरु० पृ० ४२) । अत्र यन्न

भवति इत्येतत्पर्यन्तेन ग्रन्थेन यत्पदार्थस्य व्यापकत्वं बोध्यते । तेन

व्यापकसामानाधिकरण्यं व्याप्तिः इति फलितम् । एवम् उत्तरत्रापि

ज्ञेयम् । इयमेव सर्वोपसंहारप्रवृत्तव्याप्तिः इत्युच्यते । तदर्थस्तु सकल-

हेत्वधिकरणान्तर्भावेन साध्यसत्त्व निर्वाह्यव्याप्तिः इति ( ग० बाघ ० ) ।

(५) प्रतियोग्यसमानाधिकरणयद्रप विशिष्टसमानाधिकरणात्यन्ताभाव-

प्रतियोगितानवच्छेदको यो धर्मः तद्धर्मावच्छिन्नेन येन केनापि समं

सामानाधिकरण्यं तद्रूपविशिष्टस्य तद्धर्मावच्छिन्नयावन्निरूपिता व्याप्तिः ।

स्वावच्छिन्नत्व साध्यतावच्छेदक संबन्धावच्छिन्नत्व एतदुभयाभाववत्तादृशप्र-

तियोगितासामान्यको यो धर्मः तदवच्छिन्नसामानाधिकरण्यम् इति फलि-

तोर्थः
: ( ग० सिद्धा० ) । दण्ड्यादौ साध्ये परंपरासंबद्धं दण्डत्वादिक-

मेव साध्यतावच्छेदकम् । अतः तत्तद्दण्ड्यभावमादाय नाव्याप्तिः

( दीवि० २ पृ० ३२) । (६) विशेषणताविशेषावच्छिन्नयद्धर्मवि

शिष्टसंबन्धिनिष्ठाभावप्रतियोगितानवच्छेदकावच्छेद्यत्वं तत्संबन्धावच्छि-

नसाधन
समानाधिकरणायन्ताभावप्रतियोगितासामान्ये नास्ति साधने

तद्धर्मविशिष्ट सामानाधिकरण्यं व्याप्तिः ( दीधि ० २ पृ० ३२-४३ ) ।

(७) यादृशप्रतियोगितावच्छेदकावच्छिन्नसाध्यतावच्छेदकसंबन्धावच्छिन्ननि-

रूपकताकाधिकरणतावदन्यत्वं हेतुतावच्छेद कसंबन्धावच्छिन्नहेतुतावच्छेद-

कावच्छिन्न निरूपकताकाधिकरणतावतः तन्निरूपितसाध्यतावच्छेदकताघ-

टकसंबन्धावच्छिन्नावच्छेदकताशून्यं यत् साध्यतावच्छेदकम् तदवच्छिन्न-

निरूपकताकाधिकरण तावद्वृत्तिवृत्ति यत् हेतुतावच्छेदकं तद्वत्वम् (वै०

वि० ३।१।१४ पृ० १५२) (मु० २) । (८) यद्धर्मविशिष्टानधिकर-

णत्वं हेत्वधिकरणस्य तद्धर्मभिन्नसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यम्
 
८३९
 
·
 
-