This page has not been fully proofread.

न्यायकोशः ।
 
८३७
 
0
 
तावच्छेदकरूपावच्छिन्ना यावन्त्यः प्रतियोगिताः प्रत्येकं तत्तदवच्छेदका-
वच्छिन्नतदाश्रयनिष्ठप्रतियोगितावच्छेदकताकमेदाधिकरण वृत्तित्वत्वव्याप-
कप्रतियोगिताकतत्प्रतियोगिता निरूपकाभावसजातीयाभाववत्त्वम् इति स-
मुदितार्थ: (ग० चतु० पृ० ४२) । अत्र साजायं च समानासमा
नाधिकरणधर्मावच्छिन्न प्रतियोगिताकत्वान्यतररूपेण ग्राह्यम् ( दीधि ० २
पृ० १७) । (१७) यावन्तस्तादृशाः साध्याभावाः प्रत्येकं तेषां सजा-
तीयस्य व्यापकी भूतस्य व्याप्यवृत्तेरभावस्य प्रतियोगितावच्छेदकेन धर्मेण
यद्रूपावच्छिन्नं प्रति व्यापकत्वमवच्छिद्यते तद्रूपवस्वम् । (१८) यावन्तस्ता-
दृशाः साध्याभावाः प्रत्येकं तप्रतियोगितावच्छेदकेन धर्मेण यद्रपावच्छिन्नं
प्रति व्यापकत्वमवच्छिद्यते तद्रूपवस्वं वा । (१९) परे तु वृत्तिमद्वृत्तयो
यावन्तः साध्याभाववद्वृत्तित्वाभावाः तद्वत्त्वम् इत्याहुः । इदं लक्षणं च
कूटाघटितलक्षणम् इत्युच्यते ( ग० चतु० पृ० ४७ ) । (२०) अन्ये तु
वृत्तिमद्वृत्तयो यावन्तः साध्याभाव समुदायाधिकरणवृत्तित्वाभावाः तद्वत्वम्
इत्याहुः । इदं लक्षणं तु कूटघटितलक्षणम् इत्युच्यते ( ग० चतु०
पृ० ५२ ) । (२१ ) साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदकरूपा-
वच्छिन्न प्रतियोगिताकव्याप्यवृत्तिस्वसमानाधिकरणयावदभावाधिकरणवृत्ति-
त्वाभावा वृत्तिमद्वृत्तयो यावन्तः तद्वत्त्वम् ( दीधि ० २ चतुर्दशल० पृ०
१४ - २१ ) । इदं लक्षणं तु पुच्छलक्षणम् इत्युच्यते इति विज्ञेयम् ।
यथा अन्वयव्यतिरेकिणि पर्वतो वह्निमान्धूमादित्यादौ केवलान्वयिसाध्य-
कस्थले इदं वाच्यं ज्ञेयत्वादित्यादौ केवलव्यतिरेकिणि पृथिवी इतरेभ्यो
भिद्यते गन्धवत्त्वादित्यादौ च सद्धेतौ धूमादिहेतुनिष्ठा वह्नया दिसाध्यनि-
रूपिता व्याप्तिः । पर्वतो वह्निमानित्यत्र घटत्वावच्छिन्न
प्रतियोगिताकव-
हृयभाववह्नित्वावच्छिन्न प्रतियोगिताकघटाभावघटत्वाद्यवच्छिन्न प्रतियोगिता-
कवृत्तित्वाभावाद्यात्मकान् व्यधिकरणधर्मावच्छिन्नाभावान् यथायथमादाय
पूर्वोक्तानां सर्वेषां चतुर्दशलक्षणानां समन्वयः कर्तव्यः । इदं वाच्य-
मित्यत्र च समवायित्थावच्छिन्नप्रतियोगिताक वाच्यत्वाभावज्ञेयत्वत्वावच्छि-
•नप्रतियोगिताकवाच्यत्वाभाव घटत्वाद्यवच्छिन्न प्रतियोगिता कवृत्तित्वाभावा-