This page has not been fully proofread.

न्यायकोशः ।
 
१८८ ) । तच्च व्याकरणादौ पूर्वसूत्रस्थपदस्योत्तरसूत्रे आकाङ्क्षापूरणार्थ-
मनुसंधानम् । यथा इको यणचि इत्यतः अचीति सप्तम्यन्तपदस्य आद्गुणः
इत्यादावनुवृत्तिः । अनुवृत्तिस्त्रिधा । सिंहावलोकितवत् मण्डूकडतिवत्
गङ्गास्रोतोवत् इति ( दि० ४) १८८ ) ।
 
अनुव्यवसायः – व्यवसायगोचरं प्रत्यक्षम् ( म० प्र० ६९) । यथा
घटज्ञानानन्तरं घटमहं जानामि इति मानसं ज्ञानम् । २ ज्ञाततावभा-
सकं ब्रह्मचैतन्य मिति मायावादिनः (पञ्च० कूट० ) ।
 
अनुशासनम् – १ गमकम् । ज्ञापकं शास्त्रम् । यथा अथ शब्दानुशासन-
मित्यादौ । अनुशासनमिति हि शास्त्रमाह । अनुशिष्यते व्याख्यायते लक्ष-
णभेदोपायफलसहितो योगो येन तदनुशासनमिति व्युत्पत्तेः ( सर्व०
सं० पृ० ३३७ पात ० ) । २ यथार्थज्ञापनम् । यथा ऋणे देये प्रतिज्ञाते
पञ्चकं शतमर्हति । अपह्नुते तद्विगुणं तन्मनोरनुशासनमित्यादौ ।
३ दण्डनम् । यथा एष स्तेनानुशासी राजेत्यादौ ( विक्रमोर्वशी ) ।
४ देशनया प्रवर्तना । यथा पुत्रं धर्ममनुशास्तीत्यादौ धात्वर्थः ( श०
प्र० ९९ ) । अत्र पुत्रनिष्ठस्य देशनया प्रवर्तनस्यानुकूलव्यापारवानि-
त्यर्थः । तथाविधो व्यापारः संध्यां विधेहि समिधमाघेहि इत्यायुपदेश-
रूपः ( श० प्र० ९९) ।
 
अनुषङ्गः - १ अविनाभावः । यथा सुखं दुःखानुषङ्गाद्दुः खमेवेत्यादौ ( त०
भा० ४१ ) । २ नेदीयः स्थानान्तरस्थितस्य (पदस्य ) क्वचिदनुसंधानम्
( दि० ४।१८८ ) । यथा पञ्चावयववाक्येषूपनयवाक्यस्थस्य अयम् इति
पदस्य तस्माद्वह्निमान् इति निगमनवाक्येनुषङ्गः । ३ [ क ]
स चान्योद्देशेन प्रवृत्तस्य
 
6
 
प्रसङ्गः ।
 
तन्नान्तरीयक विधयान्यसिद्धिः । यथा-
क्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते । अनुत्पत्तिं तथा चान्ये प्रत्य-
वायस्य मन्वते । नित्यक्रियां तथा चान्ये ह्यनुषङ्गफलां श्रुति-
मित्यादौ ( वाच० ) । नान्तरीयक विधयान्यसिद्धिश्च यथा - विप्रवध-
प्रायश्चित्तेन तन्नान्तरीयकविधया अवगोरणदण्डनिपातनप्रायश्चित्तसिद्धिः ।