2023-12-25 10:30:50 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
पसाध्यस्य खपुष्पशशराङ्गादिवत्तुच्छत्वाभावेन हेतुव्यापकसाध्यसामाना-

धिकरण्यग्रहोत्पत्तौ बाघकाभावः इति । सा व्याप्तिः द्विविधा अन्वय-

व्याप्तिः व्यतिरेकव्याप्तिश्च । तत्रान्वयव्याप्तिरपि द्विविधा पूर्वपक्षव्याप्तिः

सिद्धान्तसिद्धव्याप्तिश्चेति । उभयविधान्वयव्याप्तिज्ञाने व्यभिचारज्ञानाभावः

सहचारज्ञानं च कारणम् । व्यतिरेकव्याप्तिज्ञाने तु साध्याभावे हेत्वभा-

वस्य साहचर्यज्ञानं व्यभिचारज्ञानाभावश्च कारणम् इति विवेकः

( भा०प० श्लो० १३८) । व्याप्तिग्रहस्तु नानाव्यक्तिसाध्यहेतुकस्थले

वह्निमान् धूमादित्यादौ सामान्यलक्षणप्रत्यासत्या सकलवह्निधूमादिवि -

षयको जन्यते ( चि० २ पृ० १७ ) । अत्राहुः । व्याप्तिग्राहकं तु

उपाध्यभावग्रहणजनितसंस्कारसहकृतेन भूयोदर्शनज नितसंस्कारसहक-

तेन साहचर्यग्राहिणा प्रत्यक्षेणैव व्याप्तिरवधार्यते (त० भा० पृ०

१० ) । अथ वा व्यभिचारज्ञान विरहसहकृतं हेतुसाध्यसहचारदर्शनं

व्याप्तिग्राहकं भवति । व्यभिचारज्ञानं च निश्चयः शङ्का वा । सा च

कचिदुपाधिसंदेहात् क्वचिद्विशेषादर्श नसहितसाधारणधर्म दर्शनादुत्पद्यते ।

तद्विरहश्च क्वचिद्विपक्षबाधकतर्कात् कचित् स्वतःसिद्ध एव ( चि० २

पृ० १३-१४ ) ( त० कौ० २) ( त० दी० २ ) । यद्वा व्यभि

चाराग्रहः सहचारग्रहश्च व्याप्तिग्रहे कारणम् । व्यभिचारग्रहस्य व्याप्ति-

ग्रहे प्रतिबन्धकत्वात्तदभावः कारणम् । एवम्
अन्वयव्यतिरेकाभ्यां

सहचारग्रहस्यापि हेतुता । भूयोदर्शनं तु न कारणम् । व्यभिचारा-

स्फूर्ती सकद्दर्शनेपि क्वचिद्व्याप्तिग्रहात् । क्वचित् व्यभिचारशङ्काविधूनन-

द्वारा भूयोदर्शनमुपयुज्यते । यत्र तु भूयोदर्शनादपि शङ्का नापैति तत्र

विपक्षबाधकत कोपेक्षितः । तथा हि वह्निविरहिण्यपि धूमः स्यात् इति

यद्याशङ्का भवति तदा सा वह्निधूमयोः कार्यकारणभावस्य प्रतिसंधाना-

निवर्तते । यद्ययं वह्निमान्न स्यात्तदा धूमवान्न स्यात् कारणं विना कार्या-

तथा च साहचर्यग्राहिणः प्रत्यक्षस्य भूयोदर्श नव्यभिचारादर्शनोपाध्यभा-

नुस्पत्तः (मु० ) इति । वेदान्तिनस्त्वत्राहुः । प्रत्यक्षं व्याप्तिग्राहकम् ।

वनिश्चया: सहकारिणः । एवमनुमानागमावपि व्याप्तिग्राहकौ । तत्राग-

१०५ न्या० को०
 
८३३