न्यायकोशः /886
This page has been fully proofread once and needs a second look.
न्यायकोशः ।
●
पाध्याया आहुः एतादृशात्यन्ताभावासामानाधिकरण्यं यस्य तस्य तदे-
वानौपाधिकत्वम् इति ( चि० २ पृ० ८) । [ख ] स्वाभाविकः साध्य
•
हेत्वोः संबन्ध: ( त० भा० ) । [ग] उपाधिविधुरः संबन्धः ( सर्व०
सं० पृ० ७ चार्वा०) (ता० र० श्लो० १४) [घ ] यद्विशिष्टसमाना-
धिकरणा यावन्तः साध्यसमानाधिकरणास्तद्वत्त्वम् ( न्या० म० २१०
१६) । यथा इदं वाच्यं ज्ञेयत्वात् पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वात्
पर्वतो वह्निमान् घूमात् इत्यादिषु केवलान्वयिकेवलव्यतिरेक्यन्वयव्यति,
रेकिषु त्रिष्वपि हेतुषु तादृशाः संबन्धाः सन्तीति व्याप्तिसामान्य स्वरूपाण
संगच्छन्ते । भवति च धूमत्वविशिष्टसमानाधिकरणा यावन्तो धर्माः
वहसमानाधिकरणा इति धूमे वह्निव्याप्तिः । न तु वह्नौ धूमस्य । न हि
वह्नित्वविशिष्टसमानाधिकरणा यावन्तो धूमसमानाधिकरणा भवन्ति ।
अयः पिण्डत्वस्य वह्नित्व विशिष्ट समानाधिकरणस्य धूमासमानाधिकरण
त्वात् । अस्ति चेदं केवलान्वयिनि । अभिधेयत्वविशिष्टसमानाधिकर
•
णानां यावतां ज्ञेयत्वसमानाधिकरणत्वात् ( न्या० म० २ पृ०
अन्वयव्यतिरेक व्याप्तिसाधारणं व्याप्तित्वं तु हेतुतावच्छेदकनिष्ठ प्रका
•
रताभिन्ना यानुमितिजनकतावच्छेदकतावच्छेदकीभूता प्रकारतात
•
इति । तथा हि केवलान्वयिस्थले इदं वाच्यं ज्ञेयत्वादित्यादौ उक्तलक्षणघटक/
तादृशप्रकारता च हेतुव्यापकसाध्यसामानाधिकरण्यनिष्ठा निरूप्यनिरूप
भावापन्ना प्रकारता भवति । अन्वयव्यतिरेकिस्थले वह्निमान् धूमादित्यादौ ।
तादृशी प्रकारता तु हेतुव्यापकसाध्यसामानाधिकरण्यनिष्ठप्रकारता /
१६)/
तद्वत्वय
•
व्यतिरेकिस्थले पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वादित्यादौ जीवच्छ
सात्मकं प्राणादिमत्त्वादित्यादौ चाप्रसिद्धसाध्यकस्थलेपि तादृशी प्रकारता
च हेतुव्यापकसाध्यसामानाधिकरण्यनिष्ठप्रकारता भवति।
•
व्याप्तौ लक्षणसमन्चयो बोध्यः । अत्र हृदयम् / साध्या प्रसिद्धावपि अनुमितेः
पूर्व पक्षातिरिक्त यत्किंचिदधिकरणे साध्यनिश्चयाभावेपि सात्मकत्वादिस
साध्याभावव्यापकी भूताभावप्रतियोगित्वनिष्ठप्रकारता च भवति / केवल /
इति सर्वत्र