न्यायकोशः /880
This page has not been fully proofread.
८२६
न्यायकोशः ।
• यथा सर्वव्यवहार हेतुर्ज्ञानं बुद्धिः इत्यादौ व्यवहारः ( वाक्य ० १ पृ०९)
(त० प्र० ४ पृ० १३३ ) । ग तद्रूपावच्छिन्नबोधकशब्दः । यथा
अयं गौः इति शब्दः । अत्रायं कार्यकारणभावो बोध्यः व्यवहारे व्यव
हर्तव्यज्ञानं हेतुः इति ( नील० १५० ५ ) ( त० प्र० ) ।
प्राभाकरास्तु व्यवहारे व्यवहर्तव्यतावच्छेदकासंसर्गाग्रह एव कारणम
न तु व्यवहर्तव्यतावच्छेदकप्रकारकं ज्ञानं कारणम् इत्याहुः (त० प्र०
ख० ४ पृ० १३३ ) । तेन शुक्तौ इदं रजतम् इति व्यवहार उप
पद्यते इति ज्ञेयम् । २ प्राञ्चो व्यवहारशास्त्रज्ञाः अन्यविरोधेन स्वसंब
•न्धितया कथनं व्यवहारः । वादिप्रतिवादिनोर्विवादः इत्यर्थः ( वीर० २
॰ पृ० ४ ) । यथा कश्चित् इदं क्षेत्रादि मदीयम् इति कथयति ।
तद्विरोधेन मदीयम् इति इत्याहुः ( मिताक्ष० अ० २ श्लो० १//
मित्रो० अ० २ पृ० ३) । अयं व्यवहारश्चतुष्पादः भाषापादः उच-
नव्यास्तु ऋणादानादिलौकिकार्थविषया कथा व्यवहारः इत्याहुः (वीर-
• रपादः क्रियापादः साध्यसिद्धिपादश्चेति ( मिता० ) । कात्यायनहारी
"ताभ्यां व्यवहारस्वरूपमुक्तम् । प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे/
• साध्यमूलस्तु यो वादो व्यवहारः स उच्यते ॥ इति । अत्र निरुतिः।
कात्यायनेन कृता । वि नानार्थेऽव संदेहे हरणं हार उच्यते । नानात
देहहरणाद्व्यवहार इति स्मृतः ॥ ( वीर० २ पृ० ६) इति ।
हारलक्षणं तु परस्परं मनुष्याणां स्वार्थविप्रतिपत्तिषु । वाक्यन्यावा.
व्यवस्थानं व्यवहार उदाहृतः ॥ ( मिताक्षरा० अ० २ श्लो० ८) /
३ धर्मज्ञास्तु सहासनभोजनादिर्व्यवहारः । यथा न पतितैः संव्यवहारो
विद्यते ( आपस्त० धर्मसू० ७/२१/५) इत्यादौ इत्याहुः । ४ लोक
व्यवहारपदम्-व्यवहारविषयः । यथा व्यवहारशास्त्रे ऋणादानादीन्या-
दश व्यवहारपदानि । तलक्षणमुक्तं याज्ञवल्क्येन स्मृत्याचारव्यपेन
• मार्गेणाधर्षितः परैः । आवेदयति चेद्राज्ञे व्यवहारपदं हि तत्
( याज्ञ० स्मृ० अ० २ लो० ५) इति । तथा च प्रतिज्ञोत्तरसंशय-
यात्रा इति लौकिकजना आहुः ।
अन्योपि
i व्यव
॥