2023-10-18 08:37:30 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३४
 
न्यायकोशः ।
 
दा
 
मिति वा । अङ्ग पच्यतामित्यध्येषणार्थम् । पच्यतामेवेति वावधार-

णार्थम् ( वात्स्या० २१११६५ ) । [ख ] प्रमाणान्तरेणावधृत-

स्यार्थस्य प्रतिपादकः । यथा अग्निर्हिमस्य भेषजमित्यादिः ( सि० च०

३३ ) ( म० प्र० ६४ ) । भेषजं विरोधीत्यर्थः । अत्र हिमविरोधित्व-

स्याग्नौ प्रत्यक्षावगतत्वादेतद्वाक्यस्यानुवादकत्वमिति बोध्यम् ( लौ०

भा० )। अन्यरीत्यानुवादस्त्रिविधः । भूतार्थानुवादः स्तुत्यर्थानुवादः

गुणानुवादश्चेति । आद्यो यथा सदेव सौम्य इदमग्र आसीदित्यादिः

वज्रहस्तः पुरंदर इत्यादिश्च । अयं च विधिसमभिव्याहाराभावेप्यनुवादो-
1195 LED

स्तीति वृत्तिग्रन्थाल्लभ्यते (गौ० वृ० २।१।६५) । द्वितीयः वायुर्वै क्षेपिष्ठे-

त्यादिः । तृतीयः अग्निहोत्रं जुहोतीति वाक्येन प्राप्तस्याग्निहोत्रहोमस्य

दना जुहोति इत्यादिवाक्ये अनुवादः ( वाच० ) । अत्र तादृशहोमे

दधिकरणकत्वमात्रं गुणो विधीयत इति बोध्यम् । तर्कप्रकाशेनुवादो-

दाहरणं यथा – यन्त्र दुःखेन संभिन्नम् .... तत्सुखं स्व:पदास्पदमित्यादि
-

वाक्यम् । यथा वा - परिणतिसुरसमा म्रफलम् परिणतिविरस पनसफ-

लम् इत्यादि वाक्यं चानुवादः । प्रत्यक्षप्रमाणादिना तत्तदर्थनिर्णयात्

• ( त० प्र० ख० ४ पृ० १२ ) । ग ज्ञातस्य कथनमनुवादः

( जै० न्या० अ० १ पा० ४ अधि० ६ ) ।

 
<
अनुवादकत्वम्- >
गृहीतग्राह्यनुभवमात्रजनकत्वम् । स्वसमानाधिकरणस्वाव्य-

वहितपूर्ववर्तिस्वसमानाकार निश्चय विषयविषयक तद्वद्विशेष्यकतत्प्रकारकानु-

भवमात्रजनकत्वमिति यावत् । अत्र स्वपदमनुभवादिपरम् ( कु० व्या ०३ ) ।

अनुवाद्यता प्रमाणान्तरसिद्धस्य किंचिद्धर्मविधानार्थं पुनरुपन्यास्यता ।

यथा पर्वतो वह्निमानित्यादौ पर्वतरूपोद्देश्यस्य सिद्धत्वेपि वह्निमत्वरूपध-

र्मविधानार्थमुपन्यासः ( वाच० ) ।
 
-
 

 
<
अनुवृत्तत्वम् - >
१ सामानाधिकरण्यम् ( ग० सव्य ० ) । यथा धूमानु-

वृत्तो वहिरित्यादौ वह्नौ धूमानुवृत्तत्वम् । २ धारातः प्राप्तत्वम् । यथा
• •

विज्ञानवादिबौद्धमते विज्ञानसंतानस्यानुवृत्तत्वम् ।
 

 
<
अनुवृत्तिः>
दवीयःस्थानान्तरस्थितस्य (पदस्य ) सर्वत्रानुसंधानम् ४ दि० ४।