This page has not been fully proofread.

न्यायकोशः ।
 
८२५
 
व्यर्थविशेषणत्वम् - विशेषणं विनापि यत्र व्याप्तिग्रहः तत्र व्यर्थविशेषण-
त्वम् । यथा वह्निमान् नीलधूमात् कालो नित्यः शरीराजन्यत्वादित्यादौ
व्यर्थविशेषणत्वम् (चि० १ निर्वि० पृ० ८२१) । इदं च व्याप्यत्वा-
सिद्धिरूपे हे सिद्धौ वा हेत्वाभासेन्तर्भवति इति विज्ञेयम् ।
 
-
 
व्यवधानम् - १ यत्किंचिद्वस्तूत्तरत्व विशिष्टं वस्त्वन्तरपूर्वत्वम् । तच्च द्विविधम्
दैशिकम् कालिकं चेति । अन्ये तु २ द्रव्यान्तरेण द्रव्यान्तरस्याच्छादनम्
इत्याहु: ( हेमच० ) ।
 
व्यवसाय: १ ज्ञानविषयीभूतं ज्ञानम् । पूर्वज्ञानम् इति यावत् । यथा
व्यवसायात्मकं प्रत्यक्षम् ( गौ० ११११४ ) इत्यादौ । अत्र घटचाक्षुष-
प्रत्यक्षानन्तरं जायमानेन घटं साक्षात्करोमि इत्यनुव्यवसायेन गम्यो
घटसाक्षात्कारः सविकल्पकज्ञानरूपः व्यवसायः । अत्र भाष्यम् । सर्वत्र
प्रत्यक्षविषये ज्ञातुरिन्द्रियेण व्यवसाय: । पश्चात् मनसा अनुव्यवसायः ।
उपहतेन्द्रियाणामनुव्यवसायाभावात् (वात्स्या० ११११४ ) इति । एव-
मनुमानादिविषयेपि स्वयमूह्यम् । २ काव्यज्ञास्तु उद्यमः (रघु० ८/६५) ।
यथा किं दूरं व्यवसायिनाम् इत्यादौ इत्याहुः ।
 
-
 
-
 
व्यवस्था - मर्यादा । सा च कचित् शास्त्रविहितस्य विषयान्तरपरिहारेण
विषय विशेषे स्थापनम् । वैयाकरणास्तु स्वाभिधेयापेक्षावधिनियम इत्याहुः
( सि० कौ० ) । तदर्थश्च दिग्देशकालैरवधिनियमरूपा व्यवस्था इति ।
व्यवस्थायां च सर्वनामता भवति ।
 
व्यवस्थितत्वम्—[ क् ] अयोगान्ययोगाभ्यां परिच्छेदः । यथा व्यव-
• स्थितः पृथिव्यां गन्धः (वै० २१२१२) इत्यादौ पृथिव्यां गन्धस्य व्यव
• स्थितत्वम् । भवति हि पृथिवी गन्धवत्येव पृथिव्येव गन्धवती इति (वै०
(उ० २१ २ । २ ) । यथा वा व्यवस्थितविकल्पः इत्यादौ । ख बाघ-
काभावादवधारणम् (वै० वि० २१ २२ २ ) ।
व्यवहारः - १ [क] शब्दप्रयोगः ( न्या० बो० १ पृ० ६) । यथा
• व्यवहरन्ति जना इत्यादौ । [ख ] बुबोधयिषापूर्वकवाक्यप्रयोगः ।
 
१०४ न्या० को०