2023-12-25 10:18:57 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
८२३
 
श्री
 
ॐ इत्यादौ व्यपदेशः । २ शाब्दिकास्तु मुख्यव्यवहारः । यथा व्यप-
-

देशिवदेकस्मिन् ( व्या० परि०) इत्यादौ इति वदन्ति । अत्र व्यपदे-

शिना तुल्यं वर्तते ( वतिः) इति विग्रहः । समुदितार्थस्तु एकस्मिन्

असहायेपि व्यपदेशिवत् मुख्यवत् कार्य कर्तव्यम् इति । यथा अस्या-

पत्यम् इः इत्यत्र अत इञ् (पाणि० ४।११९५) इति सूत्रेण विधी-

यमानोदन्तप्रकृतिकोपि इञ् केवलात् अशब्दादपि भवति । ३ संज्ञा

( त्रिका० ) । ४ कापव्यम् (हेमच० ) (वाच०) । ५ व्यपदेशो
:

विरुद्धानुष्ठानम् (जै० सू० वृ० अ० २ पा० ४ सू० २४ ) ।
.

व्यपवर्गः - समाप्ति: ( जै० सू० वृ० अ० २ पा० ४ स०४
( ।

 
<
व्यपेक्षा>
१ अपेक्षा । २ वैयाकरणास्तु सामर्थ्यविशेषः । स च स्वार्थप-

र्यवसायिपदानामाका या दिवशाद्यः परस्परं संबन्धः सा व्यपेक्षा इत्याहुः ।

अन्येतु अवयवार्थापेक्षणम् इत्याहुः । अत्रेदं विज्ञेयम् । व्यपेक्षायां

समासो न भवति । किंतु एकार्थीभाव एव समासो भवति इति । सत्प्रप-

श्वस्तु समासशब्दव्याख्याने दृश्यः ।
 

 
<
व्यभिचरितत्वम्>
व्यभिचारः ।
 
In Psa
 
व्यमि

 
<व्यभि
चार:.>
१ ( अनैकान्तिकत्वरूपो हेतुदोषः ) एकत्राव्यवस्था । यथा

नित्यः शब्दः अस्पर्शत्वात् (वात्स्या० १।२।५ ) इति । यथा वा धूमवा-

न्वहेरिल्यादौ वधूमव्यभिचारः । शिष्टं च सव्यभिचारत्वशब्दव्या-

ख्याने दृश्यम् । व्यभिचारलक्षणं च साध्यसाधनग्रहाविरोधिनो ज्ञानस्य

विषयतया व्याप्तिग्रहप्रतिबन्धकतानतिरिक्तवृत्तित्वम् ( दीधि०. २०

२०३ ) ( ग० २ हेत्वाभा० सामा० ) । अत्रेदं बोध्यम् । व्यभिचार-
..

त्वस्य साधारणत्वासाधारणत्वानुपसंहारित्वात्मकेषु त्रिषु हेतुदोषेषु वर्तमा-

नत्वेपि साधारणत्व एवार्थे व्यभिचारशब्दं प्रायशः प्रयुञ्जत इदानींतना

नैयायिकाः इति । अत्रेदं प्रसङ्गतोधिकं बोध्यम् । व्यभिचारज्ञान विरहसह-

कृत सहचारज्ञानं व्याप्तिग्राहकम् । तत्र व्यभिचारज्ञानं द्विविधम् यथार्थम्

अयथार्थं च । अयथार्थमपि द्विविधम् निश्चयः शङ्का च । व्यभिचार-