2023-12-25 10:08:21 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
८१७
 
प्राणवियोगवती विलक्षणशब्द प्रयोक्तृत्वात् इत्यादिरूपः ( नील० ४ पृ०

३० ) । अत्रेदं बोध्यम् । तात्पर्यानुपपत्तिरेव लक्षणाबीजम् । तथा च

गच्छ गच्छसि इत्यत्रापि मा गाः इत्यर्थे गमनाभावप्रतीतीच्छयोच्चरितत्व-

रूपतात्पर्य मात्रमुन्नीयते संभाव्यते वा । तेन लक्षणया तत्र शाब्दबोधोप-.

पत्तौ व्यञ्जनाया वृत्त्यन्तरत्वं नास्त्येव ( त० प्र० ख० ४ पृ० ६९ ) इति ।

एवम् वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ( काव्य-

प्रका० उ०२ श्लो० ४ टी०) इत्यादावप्यूयम् । [ख] वैया -

करणास्तु मुख्यार्थबाधग्रहनिरपेक्षबोधजनको मुख्यार्थसंबद्धासंबद्धसाधा-

रणः प्रसिद्धाप्रसिद्धार्थविषयको वक्त्रादिवैशिष्यज्ञान प्रतिभायुहुद्धः संस्कार-

विशेषः इत्याहुः ( ल० म० आकादिवि० १० १७–१८ ) ।

 
<
व्यतिरेकः>
१ अभावः । [क] अयन्ताभाषः (न्या० बो० २ १०

१५ ) ( वाक्य० २ पृ० १५ ) । यथा पदस्य पदान्तरव्यतिरेकप्रयु -

क्तान्वयाननुभावकत्वमाकाङ्क्षा इत्यादौ । यथा वा अन्वयेन व्यतिरेकेण च

व्याप्तिमत् (त० सं० ) इत्यादौ व्यतिरेकः अभावः । यथा वा स्वव्य-

तिरेकेण धूमव्यतिरेकानुमानात् इत्यादौ व्यतिरेकः अभावः ( म० प्र० २

पृ० ३० - ३१ ) (वै० ५/११३ ) । [ ख ] भिन्नत्वम् । यथा यत-

स्तव्यतिरेकेण नान्यत्किचिदिहाप्यते इत्यादौ । २ साध्याभाव हेत्वभावयोः

साहचर्यम् । यथा व्यतिरेकव्याप्तिः इत्यादौ व्यतिरेकः ( सि० च० २

पृ० २६ ) । ३ कचित् व्यतिरेकव्याप्तिः । यथा अन्वयव्यतिरेकि

लिङ्गम् इत्यादौ व्यतिरेकः ( वाक्य० २ पृ० १५) । ४ [क]

कारणाभावकार्याभावयोः साहचर्यम् । [ ख ] कारणाभावाधिकरणे

कार्यासत्त्वम् ( राम० १ पृ० ५२) । यथा यदभावे यदभावः इति ।

स यथा चक्रचीवरादिघटितस्य दण्डस्यासत्त्वे घटस्यासत्त्वम् इति व्यति-

रेकः । अयं व्यतिरेक कारणत्वग्रहजनकः इति ज्ञेयम् ( त० प्र० मङ्ग-

ल० पृ० १ ) । ५ अत्यन्ताभावप्रतियोगित्वम् । तदर्थस्तु यस्यात्यन्ता-

भाव: प्रसिद्ध्यति तत्त्वम् इति । यथा व्यतिरे किसाध्यकस्थले वहिमानि-

त्यादौ वर्व्यतिरेकः । ६ कचित् निश्चितकोटिद्वयव व्या वृत्तत्वज्ञानम् (ग०.
 
www
 

१०३ न्या० को०