2023-12-25 10:04:57 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

८१६
 
न्यायकोशः ।
 
( काव्यप्र० उ० २ श्लो० १८ वृ० ) । अर्थनिष्ठा व्यञ्जना तु गतोस्त.

मर्कः इत्यादौ । माए घरोवअरणम् ( का० प्र० २१६ ) इत्यादौ च विज्ञेया

आलंकारिकैर्हि अभिधालक्षणयोरिव व्यञ्जनाया अपि वृत्यन्तरत्वमगत्या

स्वीक्रियते । तथा हि । गङ्गातीरे घोषः इति प्रयोगे स्वायत्ते सत्यपि

कर्तव्यम् । न च सा प्रतीतिर्लक्षणयाप्युपपद्यते । केवलतीरलक्षणयैवानुप-

गङ्गायां घोषः इत्यनन्विताभिधानं शैत्यपावनत्वादिप्रतिपत्त्यर्थम् इत्यङ्गी-

त्तिपरिहारे शैत्यपावनत्वादिविशिष्टलक्षणायां मानाभावात् । मुख्यार्थबाधा •

दित्रयाभावात् । तस्मात् शैत्यपावनत्वादिप्रतिपत्त्यर्थं व्यञ्जना आवश्यकी ।

एवम् गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म

तत्रैव भूयाद्यत्र गतो भवान् ॥ इत्यत्रापि तव गमने मम मरणं भविता

इत्यतः त्वं मागाः इति व्यज्यते इति व्यञ्जनाख्यातिरिक्ता वृत्तिरवश्यमङ्गी-

कर्तव्या इति ( काव्यप्रकाश उल्ला० २ श्लो० १४ - २० ) ( त० प्र०

४ पृ० ६९) (नील० ख० ४ पृ०३०)। नैयायिकास्तु तन्न सहन्ते/

तथा हि । व्यञ्जना शक्तौ लक्षणायां चान्तर्भवति । अत्रायं भावः / सा

क्तिमूला यथा नानार्थकस्थले दूरस्था भूधरा रम्या इत्यादौ भूधरशब्देन

व्यञ्जना शब्दशक्तिमूला अर्थशक्तिमूला चेति द्विविधा । तत्र शब्दश

पर्वतानामिव राज्ञामपि शक्त्यैव प्रतीतिः संभवति इत्यत्रत्या आलंकारि
 

त्मनः इत्यादावपि ज्ञेयम् । गङ्गायां घोषः इत्यादौ तु शैत्यपावनत्वादिवि

कमतप्रसिद्धा अभिधामूला शाब्दी व्यञ्जना शक्तावन्तर्भवति । एवम् भद्रा-

यास्तात्पर्यानुपपत्तेरेव सद्भावात् किमतिरिक्तव्यञ्जनया इत्यत्रत्या

शिष्टतीरप्रतीतिरपि लक्षणासाम्राज्यादेव संभवति । तत्र लक्षणाकल्पिका-

रिकमतप्रसिद्धा लक्षणामूला शाब्दी लाक्षणिकपर्यायपरिवृत्त्यसहत्वलक्षणा

व्यञ्जना लक्षणायामन्तर्भवति । अर्थशक्तिमूला लक्षणा यथा गच्छ /

गच्छसि इत्यादौ । अत्र हे प्रिय तव गमनोत्तरं मे प्राणवियोगो भविष्यति

अतस्त्वया न गन्तव्यम् इत्याद्यर्थोनुमानादिना गम्यते इत्यत्रत्या

कारिकमतप्रसिद्धा आर्थी व्यञ्जना अनुमानेन्तर्भवति (नील० ख०

४ पृ० ३० ) इति । तत्रानुमानप्रकारस्तु इयं मदीयगमनोत्तरकालिक
 
आलं.