2023-10-18 08:34:06 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
३३
 
तीति । प्रकारान्तरेणानुमितिर्द्विविधा । लाघवज्ञानसहकृतानुमिति: इतर-

बाघग्रह सहकृतानुमितिश्चेति । अत्रेदं बोध्यम्
– अन्वयव्यतिरेकव्यात्योर-

न्यतरनिश्चयेनाप्यनुमितिर्जन्यते इत्यनुभवो न तु युगपदुभयव्याप्त्युपस्थित्यैव
 
-
 

जन्यत इति नियमः ( चि० २ ) ।
 

 
<
अनुमित्सा- >
सिषाधयिषाशब्दवदस्यार्थोनुसंधेयः

 
<
अनुमेय:- >
१ पक्षः । यथा - यस्तु सन्ननुमेये तत्समानासमानजातीययोः

साधारणः स सन्नेव संदेहजनकत्वात्संदिग्धः (सव्यभिचारः ) ( प्रशस्त •

४७ ) इत्यादौ — अनुमेयशब्दस्यार्थः । २ साध्यम् । यथा-

पर्वतो वह्निमान्धूमादित्यत्र वह्निरनुमेयः ।
 
२.yo
 
-
 

 

 
<
अनुयोगिता - >
१ स्वरूपसंबन्धविशेषः । यथा भूतले घटसत्तादशायां भूत-
-

लनिष्ठा भूतलस्वरूपा संयोगसंबन्धस्यानुयोगिता । २ अभावत्वात्मिका

(ग०सि० ) । यथा घटो नास्ति इति प्रतीतिविषये अभावे घटनिष्ठप्र-

तियोगितानिरूपितानुयोगिता । इयमपि स्वरूपसंबन्धविशेष एवेति केचि-

न्नैयायिका वदन्ति । अखण्डोपाधिरित्यन्ये वदन्ति ।
 

 
<
अनुवत्सरः - >
प्रभवादिषष्टिसंख्यानां वत्सराणामादितः पञ्चानां पञ्चानां युग-

संज्ञकानां यथासंख्यं संवत्सर - परिवत्सर - इदावत्सर - अनुवत्सर - इद्वत्सर

इति पञ्च संज्ञाः । संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः । इदावत्सरस्तु-

तीयस्तु चतुर्थश्चानुवत्सरः । इद्वत्सरः पञ्चमस्तु तत्संघो युगसंज्ञकः ( पु०

चि० पृ० ११ ) ।
 

 
<
अनुवाद: - >
( अर्थवादः ) [ क ] विधिविहितस्यानुवचनमनुवादः (गौ०

२।१।६४) । प्राप्तस्यानु पश्चात्कथनं सप्रयोजनमनुवाद इति सामान्य-

लक्षणम् ( गौ० वृ० २।१।६५ ) । विध्यनुवचनं चानुवादो विहिता -

नुवचनं च । पूर्वः शब्दानुवादो परोर्थानुवादः । किमर्थं पुनर्विहि-

तमनूयते । अधिकारार्थम् । विहितमधिकृत्य स्तुतिर्बोध्यते निन्दा वा

#विधिशेषो वाभिधीयते । विहितानन्तरार्थोपि चानुवादो भवति ।

लोप चानुवादः । पचतु पचतु भवानित्यभ्यासः । क्षिप्रं पच्यता-
13
 

त्या० को० ५