This page has not been fully proofread.

न्यायकोशः ।
 
३३
 
तीति । प्रकारान्तरेणानुमितिर्द्विविधा । लाघवज्ञानसहकृतानुमिति: इतर-
बाघग्रह सहकृतानुमितिश्चेति । अत्रेदं बोध्यम्
– अन्वयव्यतिरेकव्यात्योर-
न्यतरनिश्चयेनाप्यनुमितिर्जन्यते इत्यनुभवो न तु युगपदुभयव्याप्त्युपस्थित्यैव
 
-
 
जन्यत इति नियमः ( चि० २ ) ।
 
अनुमित्सा- सिषाधयिषाशब्दवदस्यार्थोनुसंधेयः
अनुमेय:- १ पक्षः । यथा - यस्तु सन्ननुमेये तत्समानासमानजातीययोः
साधारणः स सन्नेव संदेहजनकत्वात्संदिग्धः (सव्यभिचारः ) ( प्रशस्त •
४७ ) इत्यादौ — अनुमेयशब्दस्यार्थः । २ साध्यम् । यथा-
पर्वतो वह्निमान्धूमादित्यत्र वह्निरनुमेयः ।
 
२.yo
 
-
 

 
अनुयोगिता - १ स्वरूपसंबन्धविशेषः । यथा भूतले घटसत्तादशायां भूत-
-
लनिष्ठा भूतलस्वरूपा संयोगसंबन्धस्यानुयोगिता । २ अभावत्वात्मिका
(ग०सि० ) । यथा घटो नास्ति इति प्रतीतिविषये अभावे घटनिष्ठप्र-
तियोगितानिरूपितानुयोगिता । इयमपि स्वरूपसंबन्धविशेष एवेति केचि-
न्नैयायिका वदन्ति । अखण्डोपाधिरित्यन्ये वदन्ति ।
 
अनुवत्सरः - प्रभवादिषष्टिसंख्यानां वत्सराणामादितः पञ्चानां पञ्चानां युग-
संज्ञकानां यथासंख्यं संवत्सर - परिवत्सर - इदावत्सर - अनुवत्सर - इद्वत्सर
इति पञ्च संज्ञाः । संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः । इदावत्सरस्तु-
तीयस्तु चतुर्थश्चानुवत्सरः । इद्वत्सरः पञ्चमस्तु तत्संघो युगसंज्ञकः ( पु०
चि० पृ० ११ ) ।
 
अनुवाद: - ( अर्थवादः ) [ क ] विधिविहितस्यानुवचनमनुवादः (गौ०
२।१।६४) । प्राप्तस्यानु पश्चात्कथनं सप्रयोजनमनुवाद इति सामान्य-
लक्षणम् ( गौ० वृ० २।१।६५ ) । विध्यनुवचनं चानुवादो विहिता -
नुवचनं च । पूर्वः शब्दानुवादो परोर्थानुवादः । किमर्थं पुनर्विहि-
तमनूयते । अधिकारार्थम् । विहितमधिकृत्य स्तुतिर्बोध्यते निन्दा वा
#विधिशेषो वाभिधीयते । विहितानन्तरार्थोपि चानुवादो भवति ।
लोप चानुवादः । पचतु पचतु भवानित्यभ्यासः । क्षिप्रं पच्यता-
13
 
त्या० को० ५