न्यायकोशः /869
This page has been fully proofread once and needs a second look.
व्य
१ बोध्यः । २ प्रकाश्य: । ३ आलंकारिकास्तु व्यञ्जनाख्यया
वृत्या बोध्योर्थः । यथा गङ्गायां घोषः इत्यादौ शैत्यपावनस्वादिरूपोर्थो गङ्गा-
पदव्यङ्ग्य: इत्याहुः । अत्र शिष्टं च व्यञ्जनशब्दे दृश्यम् ॥
व्यञ्जकम् –
<व्यञ्जकम्>
१ ज्ञानजनकम् । यथा चक्षुस्तैजसम् परकीयस्पर्शाद्यव्यञ्जकत्वे
सति परकीयरूपव्यञ्जकत्वात् प्रदीपवत् (मु० १ तेजोनि० पृ० ७९ )
इत्यादौ चक्षू रूपव्यञ्जकम् । २ नर्तकास्तु प्रकाशकम् । यथा हृद्भुतभा-
वादेर्व्यञ्जकः (प्रकाशकः ) हस्तचेष्टादिरूपोमिनयः इत्याहुः । ३ आलं-
कारिकाश्च व्यञ्जनया वृत्त्या अर्थबोधकः
:
इत्यादौ गङ्गाशब्दः शैत्यपावनत्वादेरर्थस्य व्यञ्जकः इत्याहुः । शिष्टं तु
व्यञ्जनशब्दव्याख्याने दृश्यम् ।
व्यञ्जनम्
–
<व्यञ्जनम्>
१ ज्ञानम् । यथा चक्षुषा रूपव्यञ्जनम् इत्यादौ । २ पाकशा-
स्त्रज्ञास्तु ओदनभोजनोपकरणम् । यथा सूपशाकादि व्यञ्जनम् इत्याहुः ।
अत्रार्थे विशेषेणाज्यते ( वि अञ्ज ल्युट् ) इति व्यञ्जनशब्दस्य व्युत्प-
त्तिर्दृष्टव्या । ३ वैयाकरणाश्च अर्धमात्राकालेनोच्चार्यो हळूवर्णः । यथा
व्यञ्जनं चार्धमात्रकम् ( शिक्षा० ) इत्यादौ क् ख इत्यादि इत्याहुः । ४
काव्यज्ञास्तु चिह्नम् । ५ अवयवश्च इत्याहुः । ६ [क] आलंकारिकास्तु
इत्थं वदन्ति । शब्दस्य वृत्तिविशेषो व्यञ्जना । तदुक्तम् विरतास्वभिधा-
द्यासु ययार्थो बोध्यतेपरः । सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य
च ॥ ( सा० द० परि० २ श्लो० १२) इति । यथा भद्रात्मनो दुर-.
धरोहतनोविशालवंशोन्नतेः कृतशिलीमुखसंग्रहस्य । यस्यानुपप्लुतगतेः पर-
वारणस्य दानाम्बुसेकसुभगः सततं करोभूत् ॥ ( काव्यप्रका० उ० २
(० १२ वृत्तौ ) इत्यादौ । आलंकारिकाणां मते व्यञ्जना च व्यञ्जन-
ध्वनन द्योतनगमन प्रत्यायनादिशब्दैर्व्यपदिश्यते । आलंकारिकैश्च व्य-
नाया इत्थं भेदाः प्रकल्पिताः । व्यञ्जना द्वेधा शब्दनिष्ठा अर्थनिष्ठा
च । आद्या तु द्वेधा अभिधामूला लक्षणामूला च । अभिधामूला
यथा भद्रात्मनः इत्यादी लक्षणामूला यथा गङ्गायां घोषः इत्यादौ
श्लो०
।