This page has not been fully proofread.

८१२
 
न्यायकोशः ।
 
यो०
 
वैराग्यम् –[ क ] दोषदर्शनाद्विषयत्यागेच्छा ( प्रशस्त ० २ पृ० ३३)।
[ ख ] भोगानभिषङ्गः ( न्या० वा ० १ पृ० २७ ) । [ ग ] योगशास्त्र•
ज्ञास्तु दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ( पात ०
सू० १।१५) । ऐहिकपारत्रिक विषयादौ दोषदर्शनान्निर भिलाषस्य ममै
विषया वश्याः नामेतेषां वश्यः इति विमर्श: इत्याहुः ( सर्व० सं० पृ०
३६६ पात० ) । वैराग्यं च तत्त्वज्ञानाद्विषयदोषदर्शनाद्भवति ( न्या०
वा० १ पृ० २७ ) । तच्च वैराग्यम् शमदमानन्तरं ज्ञानद्वारा मोक्षहे
तुश्च भवति ( विवेकचूडामणौ ) ।
 
वैलक्षण्यम् –मेदकधर्मः । शिष्टं तु विलक्षणशब्दे द्रष्टव्यम् ।
वैशिष्ट्यम् - १ [क] संबन्धः । यथा भूतलं घटविशिष्टम् इत्यादौ घट-
भूतलयोः संयोगनामा संबन्धो वैशिष्यम् । ख ] यस्य यत्र यः संबन्धः
स एव तत्र तस्य वैशिष्ट्यम् । यथा दण्डी पुरुषः इति ज्ञाने दण्डसंबन्धः
पुरुषेवगम्यते ( चि० १ निर्विक० पृ० ८१२) । २ वैलक्षण्यम् ३
भेदो वा । ४ आधेयोतिशयविशेषः इति केचिद्वादिनः स्वीकुर्वन्ति ।
 
-
 
-
 
वैशेषिकम् - १ कणादप्रणीतं शास्त्रम् । अत्रेदं विज्ञेयम् । कश्यपगोत्रोत्पन्नः ।
कणादमुनिः अथातो धर्म व्याख्यास्यामः इत्यारभ्य तद्वचनादानायल
प्रामाण्यमिति इत्येतत्पर्यन्तं दशाध्यायात्मकं सूत्रोपनिबद्धं वैशेषिकदर्श
• तर्कशास्त्रं प्रणिनाय इति । अत्र कणादशब्दस्य व्युत्पत्तिः । तस्य कापोती
 
मित्ता कणादसंज्ञा । अत एव निरवकाशः कणान्वा भक्षयतु इत्युपाळ-
म्भस्तत्रभवताम् ( न्या० क० पृ० २) । शास्त्ररूपायें वैशेषिक शब्दल
व्युत्पत्तिः विशेषं पदार्थभेदमधिकृत्य कृतो ग्रन्थः इति । २ तच्छाबा-
वृत्तिमनुतिष्ठतो रथ्यानिपतितांस्तण्डुलकणानादाय प्रत्यहं कृताहारनि ।
 
भिज्ञः । यथा प्रशस्तपादोद्योतकराचार्यादिर्वैशेषिकः ।
च पाकजोत्पत्तौ विभागे च विभागजे । यस्य न स्खलिता बुद्धिस्तं
वैशेषिकं विदुः ॥ ( सर्व० सं० पृ० २२० औलू० ) इति । ३/
•षसंज्ञक: गुणः । यथा आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुणः
 
अत्रोक्तम्
क्तिम दिले
 
विशेष