2023-12-25 09:59:33 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
८११
 
!
( वा वक्तव्यः (गौ० वृ० ५ । १।२) इति । यथा वा क्रियाहेतुगुणयुक्तो लोष्टः

परिच्छिन्नो दृष्टो न च तथा आत्मा तस्मान्न लोष्टवत्क्रियावानिति । न

चारित विशेषहेतुः क्रियावत्साधर्म्याक्रियावता भवितव्यम् न पुनः क्रिया-

1. वद्वैधर्म्यादक्रियेण इति विशेषहेत्वभावाद्वैधर्म्यसमः (वात्स्या० ५११/२ )

(नील० ) । [ग] वैधर्म्येण स्थापनाहेतुदूषकमुत्तरम् । यथा आत्मा

सक्रियः क्रिया हेतुगुणवत्त्वाल्लोष्टवत् । क्रियाहेतुगुणश्चात्र क्रियाजनकवा-

युसंयोगादिरेवेति स्थापनायाम् उत्तरम् क्रियावतो लोष्टस्य साधर्म्यायदि

क्रियावानात्मा तदा विभुत्वरूपतद्वैधर्म्यानिष्क्रिय एव किं न स्यात् । न

हि तत्साधर्म्याक्रियावता भवितव्यम् तद्वैधर्म्यान्निष्क्रियेण न भवितव्यम्

इत्यत्र किंचिन्नियामक मस्ति ( नील० पृ० ४३ ) इति ।

 
<
वैधयो॑दाहरणम्>
व्यतिरेक्युदाहरणम् ।

 
<
वैधर्म्यापनयः>
व्यतिरेक्युपनयः ।
 

 
<
वैनाशिक:>
१ क्षणिकः पदार्थः । २ सर्वस्य क्षणभङ्गुरत्वप्रतिपादको बौद्धा-

गमः । ३ बौद्धागमाभिज्ञः । केचित्तु मायावादिनः तार्किकस्यार्धवैनाशि-

त्वं मेनिरे । ४ ज्योतिषशास्तु षण्नाडीचक्रस्थं जन्मनक्षत्रावधि त्रयोविंशं

नक्षत्रम् । ५

 
<
वैभाषिकः>
१ बौद्धविशेषः । अत्राधिकं च बौद्धः इति शब्दव्याख्याने

परतन्त्रः । ६ ऊर्णनाभि: ( मेदि० ) ( वाच० ) ।

दृश्यम् । २ शाब्दिकास्तु विभाषा निषेधविकल्पौ । तया प्रवृत्तो वैभाषिकः ।

यथा गिरति गिलति इत्यादौ लत्वं वैभाषिकम् । यथा वा शुशाव शिवाय

शुशुवतुः शिश्वियतुः इत्यादौ संप्रसारणं वैभाषिकम् इत्याहुः (काशिका) ।

अत्रार्थे प्रमाणं सूत्रम् न वेति विभाषा ( पा० सू० ११ १/४४ ) इति ।

 
<
वैयधिकरण्यम्>
व्यधिकरणत्वम् ।

 
<
चैयर्थ्यम् - >
व्यर्थत्वम् ।
 
Com
 

 
<
वैरम>
विरोधः । अत्रायं विशेषः । वैरं पञ्चसमुत्थानं मुनिभिः परिकीर्तितम् ।

स्त्रीकृतं वास्तुजं वाग्जं ससापत्नापराधजम् ॥ इति । तत्र स्त्रीकृतं कृष्णचे-

दिपयोः । वास्तुजं कुरुपाण्डवयोः । वाग्जं द्रोणद्रुपदयोः । सापत्नं नैसर्गि-

कमहिनकुलयोः । अपराधजं पूजनीब्रह्मदत्तयोः इति (भार० ) ( वाच ० ) ।