न्यायकोशः /865
This page has not been fully proofread.
न्यायकोशः ।
८११
! ( वा वक्तव्यः (गौ० वृ० ५ । १।२) इति । यथा वा क्रियाहेतुगुणयुक्तो लोष्टः
परिच्छिन्नो दृष्टो न च तथा आत्मा तस्मान्न लोष्टवत्क्रियावानिति । न
चारित विशेषहेतुः क्रियावत्साधर्म्याक्रियावता भवितव्यम् न पुनः क्रिया-
1. वद्वैधर्म्यादक्रियेण इति विशेषहेत्वभावाद्वैधर्म्यसमः (वात्स्या० ५११/२ )
(नील० ) । [ग] वैधर्म्येण स्थापनाहेतुदूषकमुत्तरम् । यथा आत्मा
सक्रियः क्रिया हेतुगुणवत्त्वाल्लोष्टवत् । क्रियाहेतुगुणश्चात्र क्रियाजनकवा-
युसंयोगादिरेवेति स्थापनायाम् उत्तरम् क्रियावतो लोष्टस्य साधर्म्यायदि
क्रियावानात्मा तदा विभुत्वरूपतद्वैधर्म्यानिष्क्रिय एव किं न स्यात् । न
हि तत्साधर्म्याक्रियावता भवितव्यम् तद्वैधर्म्यान्निष्क्रियेण न भवितव्यम्
इत्यत्र किंचिन्नियामक मस्ति ( नील० पृ० ४३ ) इति ।
वैधयो॑दाहरणम् –व्यतिरेक्युदाहरणम् ।
वैधर्म्यापनयः – व्यतिरेक्युपनयः ।
वैनाशिक:– १ क्षणिकः पदार्थः । २ सर्वस्य क्षणभङ्गुरत्वप्रतिपादको बौद्धा-
गमः । ३ बौद्धागमाभिज्ञः । केचित्तु मायावादिनः तार्किकस्यार्धवैनाशि-
त्वं मेनिरे । ४ ज्योतिषशास्तु षण्नाडीचक्रस्थं जन्मनक्षत्रावधि त्रयोविंशं
नक्षत्रम् । ५
वैभाषिकः—१ बौद्धविशेषः । अत्राधिकं च बौद्धः इति शब्दव्याख्याने
★ परतन्त्रः । ६ ऊर्णनाभि: ( मेदि० ) ( वाच० ) ।
दृश्यम् । २ शाब्दिकास्तु विभाषा निषेधविकल्पौ । तया प्रवृत्तो वैभाषिकः ।
यथा गिरति गिलति इत्यादौ लत्वं वैभाषिकम् । यथा वा शुशाव शिवाय
शुशुवतुः शिश्वियतुः इत्यादौ संप्रसारणं वैभाषिकम् इत्याहुः (काशिका) ।
अत्रार्थे प्रमाणं सूत्रम् न वेति विभाषा ( पा० सू० ११ १/४४ ) इति ।
वैयधिकरण्यम् – व्यधिकरणत्वम् ।
चैयर्थ्यम् - व्यर्थत्वम् ।
Com
वैरम — विरोधः । अत्रायं विशेषः । वैरं पञ्चसमुत्थानं मुनिभिः परिकीर्तितम् ।
• स्त्रीकृतं वास्तुजं वाग्जं ससापत्नापराधजम् ॥ इति । तत्र स्त्रीकृतं कृष्णचे-
• दिपयोः । वास्तुजं कुरुपाण्डवयोः । वाग्जं द्रोणद्रुपदयोः । सापत्नं नैसर्गि-
कमहिनकुलयोः । अपराधजं पूजनीब्रह्मदत्तयोः इति (भार० ) ( वाच ० ) ।