This page has not been fully proofread.

न्यायकोशः ।
 
(गौ० ) ( वात्स्या० २११/६२ ) (गौ० वृ० २११/६२) । मीमांसकास्तु
विधिमन्त्रनामधेयनिषेधार्थवादभेदात्पञ्चविधो वेदः इत्याहुः ( लौ० भा०
 
पृ० १२ ) । सांख्यास्त्वित्थं वदन्ति । न नित्यत्वं वेदानाम् । कार्यत्वश्रुतेः
(सांख्य० सू० ५/४५ ) । स तपोतप्यत ( तै० २।६।१ ) तस्मात्तपस्तेपा-
नात्रयो वेदा अजायन्त इति श्रुतेश्च । वेदनित्यतावाक्यानि च सजातीया-
नुपूर्वीप्रवाहानुच्छेदपराणि इति ( सां० भा० ५/४५ पृ० १८२ ) ।
अत्रायं विशेषो ज्ञेयः । आर्ष छन्दो दैवतं च विनियोगस्तथैव च । वेदि-
तव्यं प्रयत्नेन ब्राह्मणेन विशेषतः ॥ अविदित्वा तु यः कुर्याद्यजनाध्ययनं
जपम् । होममन्तर्जले दानं तस्य चाल्पफलं भवेत् ॥ ( याज्ञव० )
( वाच० ) इत्यादिः । २ विष्णुः (विष्णुसं० ) । ३ ज्ञानम् । शास्त्री-
यज्ञानं वा । ४ शास्त्रोक्तं चरित्रम् ( मेदि० ) । ५ दर्भमुष्टिकृतः पदा-
र्थविशेषः । यथा वेदं कृत्वा वेदिं कुर्यात् (श्रुतिः ) इत्यादौ । ६ ज्ञाप-
कम् । अत्रार्थे व्याकरणम् वेदयति विद् णिच् अच् वेदः इति ।
७ ज्ञाता । यथा वेदोसि येन त्वं देवेभ्यो वेदोभवस्तेन मह्यं वेदो
भूया: इत्यादौ ( यजु: ० २१ २१ ) । अत्र कर्कभाष्यम् पत्नी वेदं
प्रमुञ्चति वेदोसि इति । हे कुशमुष्टिनिर्मितपदार्थ त्वं वेदोसि ऋगाद्यात्म-
कोसि । यद्वा वेत्तीति वेदः । ज्ञातासि । देवेभ्यो देवानां वेदोभवो ज्ञाप
कोभू: इति ( वाच० ) ।
वेदनास्कन्धः—प्रागुक्तस्कन्धद्वयसंबन्धजन्यः
( सर्व० सं० पृ० ४० बौ० ) ।
 
वेदवाक्यम् - प्रमाणान्तरागोचरार्थप्रतिपादकं वाक्यम् ( सर्व० सं० पृ०
 
२७३-२७४ जै० ) ।
 
वेदान्तः - वेदशिरोभागो ब्रह्मप्रतिपादक उपनिषद्रपो ग्रन्थविशेषः । यथा
• ऐतरेय ब्रह्मवल्ली नारायण इंश बृहदारण्यक छान्दोग्य प्रश्न माण्डूक्य इत्या-
दय उपनिषदः । वेदान्त उत्तरमीमांसा इति व्यवयिते । कर्मकाण्डानन्त-
रविचार्यत्वात् इति ज्ञेयम् । अत्र व्युत्पत्तिः वेदानां ऋगादीनाम् अन्तश्चर
 
-
 
८०७
 
सुखदुःखादिप्रत्ययप्रवाहः