This page has not been fully proofread.

.८०६
 
न्यायकोशः ।
 
• भिहताः प्रनष्टाः ( वाच० ) इति । अथर्ववेदस्य पैप्पलादयो नव भेदा
भवन्ति इति । वेदाङ्गानि षट् शिक्षा कल्पः व्याकरणम् निरुक्तम् छन्दः
९ ज्योतिषं चेति (आपस्त० सू०२१४१८११) । उपाङ्गानि तु चत्वारि
पुराणन्यायमीमांसाधर्मशास्त्राणि इति । यूपलक्षणछागलक्षणादिभेदेना-
•ष्टादश परिशिष्टानि यजुषः । सर्वेषां वेदानामुपवेदा भवन्ति । तत्र ऋग्वे-
-दस्यायुर्वेद उपवेदः यजुर्वेदस्य धनुर्वेदः सामवेदस्य गान्धर्ववेदः अथर्व-
वेदस्य शस्त्रशास्त्राणि भवन्ति इति । अथर्ववेदस्य स्थापत्यम् ( अर्थशास्त्रम्)
• उपवेदः इत्यपि पाठो ग्रन्थान्तरे दृश्यते । ऋग्वेदस्यात्रेयं गोत्रं वासुदेव
विदुर्बुधाः । काश्यपं च यजुर्वेदं रुद्रदेवं तु तं विदुः ।
• गोत्रेण भारद्वाजः पुरंदरम् । अधिदेवं विजानीयात् वैतानं तु अथर्वणः ॥
इति । शिष्टं तु विष्णुपुराणे ( अंश ० ३ अ० ५ - ६ ) द्रष्टव्यम् ।
 
सामवेदोपि
 
। अत्रेद
 
विज्ञेयम् । वेदस्य छिन्नमूलग्रन्थतया उच्छिन्नत्वेपि अविगीतशिष्टाचारादेव
तदनुमानम् । प्रलये पूर्वस्मृत्याचारयोरुच्छेदात् सर्गादौ नित्यज्ञेश्वर-
• प्रणीतवेदमूलत्वं स्मृत्याचारयोः (चि० ४ ) इति । अत्र पुनरपि श्रुतीनां
• नित्यत्वस्वतःप्रामाण्येश्वरोच्चरितत्वादौ प्रमाणयन्ति स पर्यगच्छुकमकायम
 
धाति पूर्वम् यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाश
ई० ८) । यथेमां वाचं कल्याणीम् (यजुः ) । यो ब्रह्माणंद-
• मुमुक्षुर्वे शरणमहं प्रपद्ये (श्वे०६।१८) । अत एव च नित्यत्वम् (१०
सू० १।३।२९ ) । उक्तं तु शब्दपूर्वत्वम् ( जै० सू० १/१/२९ ) //
निजशक्त्यभिव्यक्तेः स्वतः प्रामाण्यम् (सांख्यसू० ५/५१) । युगान्तेन्त-
हितान् वेदान् सेतिहासान्महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा
( स्मृतिः ) । तद्वचनादाम्नायस्य प्रामाण्यम् (३० १/१/३ ) (१०/२/९)
इत्यादीनि । चत्वारोप वेदाः प्रत्येकं द्विधा मन्त्रः ब्राह्मणं चेति ।
तत्र प्रमाणम् मन्त्रब्राह्मणयोर्वेदनामधेयम् ( बौधा० सू० ) ( आप-
स्तम्ब० ) इति । तत्र ऋग्वेदस्यैतरेय ब्राह्मणम् यजुर्वेदस्य तैत्तिरीय शतप
• इति । ब्राह्मणं त्रिधा विधिवचनम् अर्थवादवचनम् अनुवादवचनं बेति
 
.