न्यायकोशः /86
This page has not been fully proofread.
३२
न्यायकोशः ।
रेणानुमानं द्विविधम् । तथा चोक्तम्- दृष्टं सामान्यतो दृष्टमिति चास्य
विधाद्वयम् । पूर्वे प्रत्यक्षयोग्यार्थं तदयोग्यार्थमुत्तरम् ॥ इति ( ता० र ०
श्लो० २१ ) ( प्रशस्त ० २ ) । मायावादिनस्तु - अनुमानं न त्रिविधं
किंतु अन्वयिरूपमेकमेवेत्याहु: ( वेदान्तप० पृ० ३४ ) । २ लिङ्गम्
(चि० २)
-
अनुमिति: – ( अनुभवः ) [क] व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं ज्ञानम्
( चि० २ ) । अत्र व्याप्तिविशिष्टपक्षधर्मताज्ञानेन जन्यमिति विग्रहः ।
तदर्थश्च व्याप्तिविशिष्टपक्षधर्मत्वविषयताशालिनिश्चयत्वावच्छिन्न कारणता-
निरूपितकार्यत्वे सति ज्ञानम् ( वाक्य० ) । व्याप्तिनिष्ठप्रकारतानिरूपिता
या हेतुनिष्ठा प्रकारता तन्निरूपिता या पक्षतावच्छेदकावच्छिन्नविशेष्यता
तच्छालिज्ञानजन्यं ज्ञानमिति निर्गलितोर्थ: ( दि० २ । १३८ ) । व्याप्तिवि
शिष्टपक्षधर्मताज्ञानं च परामर्शशब्दव्याख्यानावसरे निरूपयिष्यामः ।
अत्रेदं बोध्यम् - ज्ञानलक्षणसंनिकर्षसत्त्वेपि तस्य दुर्बलत्वेन परामर्शा-
नन्तरं पर्वते वह्नयनुमितिरेव न तु प्रत्यक्षमिति ( म०प्र० ७३ ) ।
अनुमितेर्लक्षणं च अनुमितित्वमेव । तच्च अनुमिनोमि इत्यनुभव-
सिद्धो जातिविशेषः । जन्यशब्दधीजन्यत्वव्यभिचारिणी या जन्यज्ञान-
जन्यत्वाव्यभिचारिणी च जाति: ( अनुमितित्वं ) तद्वदनुभवत्वम् ( न्या०
म० २ (१४) (त० प्र०) । पदप्रयोजनादिकं तु तत एव ज्ञेयम् । [ ख ]
परामर्शजन्यं ज्ञानम् ( त० सं० ) । [ ग ] लिङ्गज्ञानजन्यं लि-
ङ्गिज्ञानम् ( त० कौ० ) । [घ ] व्याप्तिज्ञानकरणकं ज्ञानम्
( मु० ) । यथा पर्वते धूमेन वहिसाधने पर्वते धूमज्ञानानन्तरं पर्वतो
वह्निमान् इति ज्ञानम् ( त० कौ० ) ( त० सं० ) । अनुमितिद्वेधा ।
पक्षतावच्छेदकसाध्ययोः सामानाधिकरण्यमात्रावगाहिनी तयोरवच्छेद्याव-
च्छेदकभावावगाहिनी च ( ग० पक्ष० ) । अत्रेदमवधेयम् । पर्वतो
वह्निमान् इत्याद्यनुमितौ यदा वह्निपर्वतत्वयोः सामानाधिकरण्यमात्रं विव
क्षितं तदा सानुमितिः सामानाधिकरण्यमात्रावगाहिनी । यदा तुला
र्व्याप्यव्यापकभावो विवक्षितस्तदावच्छेद्यावच्छेदकभावावगाहिती । तथा