This page has not been fully proofread.

न्यायकोशः ।
 
वास्मदादिबुद्ध्यगोचरत्वात् । तेन स्वतन्त्र पुरुषपूर्वकत्वं वेदे सिद्ध्यति (वै०
उ० ६।१।१ ) ( वात्स्या० २१११६८) इति । किं च वेदस्याप्रामाण्य -
शङ्कानिवारणमपि कृतम् न कर्मकर्तृसाधनवैगुण्यात् (गौ० २१११५८)
इति । एवं च परमाप्तसर्वज्ञेश्वरप्रणीतत्वेन वेदस्य प्रामाण्यं सिद्ध्यति इति ।
[ग] केचिद्वेदान्तिनस्तु अपौरुषेयत्वे सति समयबलेन परोक्षानुभव-
साधनं वेदः इत्याहुः (माघ ० भाष्य ० ) । अत्र पौरुषेयत्वं च सजाती-
योच्चारणानपेक्षोच्चारणविषयत्वम् । तादृशोच्चारणजातीयत्वं वा । तथा च
सर्गाद्यकाले परमेश्वरः प्राणिनां भोगभूतये लीलाविग्रहं परिगृह्य पूर्वस-
र्गसिद्धवेदानुपूर्वीसमानानुपूर्वीकं वेदं विरचितवान् न तु तद्विजातीयं
वेदम् इति न पौरुषेयत्वं वेदस्य । भारतादीनां तु सजातीयोच्चारणमनपे-
क्ष्यैवोच्चारणम् इति तेषां पौरुषेयत्वम् (वेदान्तप० आगमपरि० पृ० ५५)
( मथुराना० ) इति । वेदस्येश्वरकर्तृकत्वे प्रमाणम् अस्य महतो भूतस्य
निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः (बृ० २।४।१०) तस्माद्यज्ञात्सर्वहुत ऋचः
सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत इति च । इदं
सर्वमसृजत ऋचो यजूंषि सामानि इति तेपानात्रयो वेदा अजायन्त इति
च । परं तु ऋग्वेद एवाग्नेरजायत यजुर्वेदो वायोः सामवेद आदित्यात्
इत्यादिश्रुतेः ईश्वरस्याग्नयादिप्रेरकत्वेन निर्मातृत्वं गम्यते । अत्र प्रति-
मन्वन्तरं चैषा श्रुतिरन्याभिधीयते इत्यागमोपि द्रष्टव्यः (चि० ४ ) ।
● अत्रान्येत्यस्य तद्भिन्ना तत्सदृशी इत्यर्थः । तेन पूर्वमन्वन्तरस्थत्वं निषि-
ध्यते । प्रत्येकं मन्त्रब्राह्मणवन्तो वेदाश्चस्वारः ऋग्वेदः यजुर्वेदः सामवेदः
अथर्ववेदश्चेति । तत्र ऋग्वेदस्य शाकलादयो दश भेदाः ( शाखाः)
भवन्ति । यजुर्वेदस्य चरकादयः षडशीतिर्भेदा भवन्ति । तत्र वाजसने-
यानां जाबालादयः सप्तदश भेदा भवन्ति । तैत्तिरीयाणां द्विभेदा भवन्ति
औक्ष्याः खाण्डिकेयाश्चेति । तत्र खाण्डिकेयानां पञ्च भेदा भवन्ति ।
आपस्तम्बी बौधायनी सत्याषाढी (हिरण्यकेशी) भारद्वाजी वाधूली
चेति । सामवेदस्य किल सहस्रं भेदा आसन् राणायनीयाः कौथुमाः इत्या-
दयः ( १००० ) । अत्रोक्तम् अनध्यायेष्वधीयानास्ते शतक्रतुवज्रेणा-