This page has not been fully proofread.

८०४
 
न्यायकोशः ।
 
yam
 
यन्ते वेदाः । काठकं कालापकम् पैप्पलादकं मौहुलकम् (शाब०
भा० १११।२७) इति । अथ वा तत्तच्छाखाकर्तृत्वेन पुरुषा आख्या-
यन्ते काठकम् कौथुमम् तैत्तिरीयम् इति । अत्र समाधत्ते उक्तं तु
शब्दपूर्वत्वम् । आख्या प्रवचनात् ( जैमि० १ । १ । २९-३०)
इति । तदर्थस्तु वेदानां प्राचीनत्वम् उपाध्यायप्रवचनरूपसंप्रदाय प्रवर्त
• कत्वेन समाख्या इति । पुनः शङ्कते अनित्यदर्शनाच ( जैमि०
१ । १ । २८ ) इति । तदर्थस्तु जननमरणवन्तश्च वेदार्थाः श्रूयन्ते
बबर: प्रावाहणिरकामयत कुसुरुविन्द औद्दालकिरकामयत इत्येवमादयः ।
उद्दालकस्यापत्यं गम्यत औद्दालकिः इति ( शाब० मा० ११ १/२८ ) ।
अत्र समाधत्ते परं तु श्रुतिसामान्यमात्रम् ( जैमि० १/१/३१ ) इति ।
• तदर्थस्तु बबरध्वनियुक्तप्रवहणस्वभावो वायुरेव । न तु प्रवहणनामकः
पुरुषः । असिद्धत्वात् ( शाब० भा० १।१।३१ ) इति । नैयायिकास्तु
वेदस्येश्वरकर्तृकत्वं मन्यन्ते । तत्कर्तृत्वे प्रमाणमनुमानम् । तच्च
•षेयो वाक्यत्वाद्भारतादिवत् इति (चि० ४) (सर्व० पृ० २७०
मीमांसकादयः । तन्न सहन्ते नैयायिकाः । अत्रत्यविषयस्तर्कशास्त्रादौ
अस्मिन्ननुमाने श्रूयमाणकर्तृकत्वं स्मर्यमाणकर्तृकत्वं चोपाधिमुद्भावयन्ति
द्रष्टव्यः इत्यलमतिप्रसङ्गेन । अत्र पौरुषेयत्वं च पुरुषाधीनोत्पत्तिकत्वम्
( वेदान्तप० आगमपरि० पृ० ५४ ) । वर्णानामनित्यत्वादेव वेदस्या-
प्यनित्यत्वम् (गौ० वृ० २।२।१३) । वेदस्येश्वरकर्तृकत्वे मानं च
• रेव तावदर्भ इव श्रुतिकुमार्याः पुंयोगे मानम् इत्याचार्याः प्राहुः (
व० १।१ पृ० ३९ ) ( मु० गु० ) (त० कौ० ४) । अन्ये त्वाः /
वेदवाक्यानां बुद्धिमत्कर्तृकत्वे इतरबाधात् ईश्वरकर्तृकत्वं सेत्स्यति ( तु
व० ) इति । अत्र सूत्राणि बुद्धिपूर्वा वाक्यकृतिर्वेदे (वै० ६/१/१) बुद्धि /
ददाति: (वै० ६ । १॥३) इत्यादीनि । अत्रायं भावः । वेदवाक्यरचना वक्तृ
• यथार्थवाक्यार्थज्ञानपूवो वाक्यरचनात्वात् नदीतीरे पञ्च फलानि सन्ति
• नान्यथासिद्धिः । स्वर्गकामो यजेत इत्यादाविष्टसाधनतायाः कार्यता
इत्यस्मदादिवाक्यरचनावत् इत्यनुमानम् । न च फलानि
 
पौरु
वेदः
malay
जैमि०)।
 
विधि-
कि०