This page has not been fully proofread.

न्यायकोशः ।
 
७९९
 
विशेषणत्वेन ग्रहणम् सा वृत्तिः । अथ वा परार्थस्य प्रधानार्थस्याप्रधान -
पदैर्यत्र स्वार्थविशेष्यत्वेन ग्रहणं सा वृत्तिः । राजपुरुष इत्यत्र पुरुषपदेन
वाक्यावस्थायामनास्कन्नो राजार्थो राजपदेन वा पुरुषार्थ आस्कन्द्यते ।
तत्संवलितः स्वार्थ उपस्थाप्यत इति यावत् ( ल० म० वृत्तिनि० पृ० ८ ) ।
अत्रेदं विज्ञेयम् । वृत्तिविषयं समर्थः पदविधिः (पाणि० २११।१ )
इति सूत्रम् । सामर्थ्य चात्रैकार्थीभावः । पृथगर्थानामेकार्थीभावः साम-
र्थ्यम्। राज्ञः पुरुषः इति वाक्ये पृथगर्थानि पदानि राजपुरुषः इति समासे
एकार्थानि इति भाष्यात् । एवं च यत्किंचित्पदजन्यपृथगुपस्थितिविषयार्थ-
कत्वेन लोकदृष्टानां विशिष्ट विषयैकशक्त्यैकोपस्थितिजनकत्वमे कार्थीभावः
इति फलितम् ( ल० म० वृत्तिविचा० पृ० १ ) ( काशिका २।१।१ ) ।
७ सांख्यास्तु महदादीनामिन्द्रियाणां च व्यापारो वृत्तिः । यथा अध्य-
वसायो ( बुद्धेर्वृत्तिः ) बुद्धिः ( सां० सू० २ । १३ ) इत्यादौ इत्याहुः ।
तत्रोक्तम् रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः । वचनादान-
विहरणोत्सर्गानन्दाश्च पञ्चानाम् ॥ (सांख्य० का० श्लो० २८ ) इत्यादि ।
अत्र योगशास्त्र प्रवर्तकः पतञ्जलि: सूत्रयामास वृत्तयः पञ्चतय्य: किष्टा
अक्लिष्टाः। प्रमाणविपर्यय विकल्पनिद्रास्मृतयः ( योगसू ० १ । ६-७ ) इति ।
८ अन्तःकरणपरिणामो वृत्तिः इति मायावादिनो वेदान्तिन आहुः ।
अन्तःकरणवृत्तेः स्वरूपप्रयोजनादिकं यथा । यथा तडागोदकं छिद्रान्निर्गत्य
कुल्यात्मना केदारान् प्रविश्य तद्वदेव चतुष्कोणायाकारं भवति तथा
तैजसमन्तःकरणमपि चक्षुरादिद्वारा घटांदिविषयदेशं गत्वा घटादिविषया-
कारेण परिणमते । स एव परिणामो वृत्तिः इत्युच्यते । अनुमित्यादिस्थले
तु नान्तःकरणस्यादिदेशगमनम् । वह्यादेश्वक्षुराद्यसंनिकर्षात् ।
इन्द्रियजन्यवृत्तिश्चावरणभङ्गार्था संबन्धार्था इति मतद्वैधम् ( वेदा०प०
परि० ७ )। ९ साहित्यशास्त्रज्ञास्तु नाटकादौ रचनाविशेषो वृत्तिः । सा च
' कैशिकी सात्वती भारती आरभटी इत्येवं चतुर्विधा इत्याहुः । तदुक्तम्
शृङ्गारे कैशिकी वीरे सावत्यारभटी पुनः । रसे रौद्रे च बीभत्से वृत्तिः
सर्वत्र भारती ॥ चतस्रो वृत्तयो ह्येताः सर्वनाट्यस्य मातृका: ( सा०
द० परि० ६ श्लो० १२२, १२३ ) ( प्रतापरुद्रे० प्रक० २