This page has not been fully proofread.

७९८
 
न्यायकोशः ।
 
J
 
तीरे
 
योगात् प्रस्तरे प्रयुक्तो यजमानकार्यकारणत्वेन प्रस्तरमुपस्थापयति । यथा
वा सिंहो माणवकः इत्यादौ सिंहशब्द: स्वार्थनिष्ठचापल्यादिगुणयोगा-
न्माणवकं तेन रूपेणोपस्थापयति । तथा च तन्मते शक्तिलक्षणाभ्यामति
• रिक्तैव गौणी वृत्तिः ( म० प्र० ४ पृ० ४१ ) । शक्यस्य साक्षात्संबन्ध
एव लक्षणा न तु परंपरासंबन्धरूपा । तेन गङ्गायां घोषः इत्यत्र
शक्यस्य प्रवाहस्येव अग्निर्माणवकः इत्यादौ माणवके शक्यस्याग्नेः साक्षा
संबन्धो न संभवति इति सादृश्यात्मकस्य परंपरासंबन्धस्यातिरिक्तवृत्ति-
• त्वमङ्गीकर्तव्यम् इति मीमांसकानामभिप्रायः । नैयायिकास्तु तन्न सहन्ते ।
शक्यस्य साक्षात्संबन्धस्येव परंपरासंबन्धस्यापि लक्षणात्वस्वीकारे क्षति-
विरहागौण्या न वृत्त्यन्तरत्वम् । तथा च अग्निर्माणवकः इत्यादौ लक्ष्य-
माणगुणसंबन्धरूपा लक्षणैव ( वेदा० प० ) । तदर्थश्च लक्ष्यम
यो गुणः शुचित्वादिः तत्संबन्धरूपा इति । तथा च अग्निर्माणवकः
इत्यादौ शक्यस्याग्नेः स्वनिष्ठशुचित्ववत्त्वसंबन्ध एव लक्षणा ( नील
दिनः तार्किकाः । तेषामयमाशयः । अभिधाया एकैकपदार्थबोधेन
पृ० ३० ) । वाक्यार्थबोधने तात्पर्याख्यां वृत्तिमङ्गीचकुरभिहितान्वयवा-
• विरमात् वाक्यार्थरूपस्य पदार्थान्वयस्य बोधिका तात्पर्याख्या वृत्तिरी
कर्तव्या । तदुक्तम् तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने ( सा० ५०
उ०२ श्लो०२०) इति । २ संनिकर्षः । ३ ज्ञानम् (वात्स्या० १/१/३)
४ आधेयत्वम् । यथा भूतलवृत्तिर्घटः इत्यादौ घटे भूतलाधेयत्वम् /
यथा वा सिद्धान्तसिद्धव्याप्तिस्वरूपे निरूपणीये हेतुमति निष्ठा वृत्तिर्यस्य
स तथा विरहः अभावः इत्यादौ वृत्तिशब्दस्यार्थ आधेयत्वम् (मु०
पृ० १४० ) । ५ आधेयतावान् । यथा तत्र वृत्तिर्यः अभावः इत्यादौ ।
• यथा वा सपक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेत् (भा०प० २ श्लो०७१)
इत्यादौ वृत्तिशब्दस्यार्थ आधेयतावान् । ६ वैयाकरणास्तु विग्रहवाक्यार्थी-
भिधानम् परार्थाभिधानं वा वृत्तिः ( महाभा० ) । यथा राज्ञः पुरुष
इत्यत्र राजपुरुषः इति समासो वृत्तिः । ताश्च वृत्तयः कृत्तद्वितसमासेक
शेषसनाद्यन्तधातवः पञ्च इत्याहुः । परार्थाभिधानमित्यस्यार्थस्तु पर
शब्दस्योपसर्जनार्थकस्य यत्र शब्दान्तरेण प्रधानार्थक प
 
: