This page has not been fully proofread.

७९६
 
न्यायकोशः ।
 
विहिताया द्विरुक्तेर्नित्यतया यत्पदे द्विरुक्तिसत्त्वेपि तथा तत्पदे द्विरुक्तेः
साधुत्वेपि च न्याये प्रयुज्यमानेधिकस्यानपेक्षितत्वेन तत्पदे द्विरुक्ते•
नावश्यकत्वम् ( ग० २ हेतु० पृ० ७४) इति । अत्र च वीप्सया
महानसं घूमवद्वह्निमञ्च महानसान्यद्धमवद्वह्निमञ्च इति वाक्यार्थचतुष्टय
विषयकबोधः धूमवान्धूमव्यापकवह्निमान् इति विशिष्टैकार्थबोधो वा जायते
इति बोध्यम् (ग० २ अव० न्यायलक्ष० पृ० ६) । अत्र वीप्साप्रयो-
जनं च क्वचिद्व्यभिचारधीवारणमिति प्राञ्च आहुः । उद्देश्यमानसव्याप्ति-
ज्ञानविरोधिव्यभिचारधीवारणम् इत्यर्थः । तथा चायं भावः ।
 
यावद्धेत्व-
•धिकरणे साध्यवस्त्वनिश्चये तेन व्यभिचारशङ्कानिवर्तनेन साधनाधिकरणे
 
[ग] अनवयवेन
 
साध्याभाववत्त्वरूपव्यभिचारग्रहप्रतिबन्धो भवति । [ग]
द्रव्याणामभिधानमेव वीप्सार्थः इति महाभाष्यकार: पतञ्जलिराह ।
वीरुत् — छिन्ना अपि या विविधं प्ररोहन्ति ता लता: गुडूचीप्रभृतयः ।
 
-
 
वृत्तिः–१ [ क ] शाब्दबोधहेतुपदार्थोप स्थित्यनुकूल: पदपदार्थयोः संबन्धः ।
( चि० ४ ) (मु० ४ पृ० १७४ ) । सा च पदवृत्तिः इत्युच्यते इति
विज्ञेयम् (ग० शक्ति० पृ० २) । अत्र वृत्तित्वं च शक्तिलक्षणान्यतर
त्वम् ( त० प्र० ख० ४ पृ० ३४ ) । परे तु शाब्दबोधजनकपद-
पदार्थसंबन्धत्वम् इत्याहु: ( ल० म० स्फोट० पृ० १३) / अत्रेदं
बोध्यम् । वृत्तिस्तात्पर्यनिर्वाहिका भवति । तात्पर्य चात्र त्रिविधम् औत्स
र्गिकम् आपवादिकम् नियतं चेति । तत्राद्यम् शक्तिं कल्पयति ।
 
द्वितीयम् लक्षणां कल्पयति । यथा गङ्गापदस्य मुख्यार्थान्वयबाधे तीरादौ
घटादिपदप्रयोक्तरुत्सर्गतो घटादावेव तात्पर्यमस्ति इति तस्य तत्र शक्तिः ॥
तात्पर्यग्रहो भवति इति तस्य तत्र लक्षणा । तृतीयम् निरूढिलक्षण।
 
यथा
 
• नियमात्तत्र निरूढिलक्षणा । यथा कटं करोतीत्यादौ कटशब्दस्य कटा-
कल्पयति । निरूढलाक्षणिकस्यानुपपत्तिज्ञानमन्तरापि लक्ष्ये तात्पर्यग्रह
• अनुपपत्तिज्ञानविरहेपि कटावयवान् कटवत्तया करोति इति ततो बोधात्॥
वयवे । कटस्य सिद्धत्वे करणं न संभवति असिद्धे च कर्मत्वं न इति ।
अथ वा वह्निमान्धूमादित्यादौ हेतुपदे तज्ज्ञाने निरूढिलक्षणा ( म०प्र०