न्यायकोशः /85
This page has been fully proofread once and needs a second look.
३१
गृहीत्वा पर्वतसमीपं गतस्तद्गते चाग्नौ संदिहानः पर्वते धूमं पश्यन् यत्र
धूमस्तत्राग्निः इति व्याप्तिं स्मरति । तदनन्तरं वह्निव्याप्यधूमवान्पर्वतः इति
ज्ञानमुत्पद्यते । अयं लिङ्गपरामर्श इत्युच्यते । तस्मात् पर्वतो वह्निमान् इति
ज्ञानम् अनुमितिरुत्पद्यते । तदेतत्स्वार्थानुमानम् । यत्तु स्वयमेव धूमाद-
ग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयवोपेतं वाक्यं प्रयु तत्परार्थानुमानम्
( त० सं० ) । प्रकारान्तरेणानुमानं त्रिविधम् । पूर्ववत् शेषवत् सामान्यतो
दृष्टम् । अत्र व्युत्पत्तिः पूर्वी कारणं तद्वत् इति । तदर्थस्तु [ क ] कार-
णलिङ्गकम् । यथा मेघोन्नतिविशेषेण वृष्ट्यनुमानम् (गौ०वृ०१।१।५ ) ।
[ ख ] यत्र कारणेन कार्यमनुमीयते यथा मेघोन्नत्या भविष्यति
वृष्टिः इति ( वात्स्या० ११११५ ) । शेषवच्छब्दव्युत्पत्तिस्तु शेषः कार्य
तद्वत् इति । तदर्थस्तु [ क ] कार्यलिङ्गकम् । यथा नदीवृद्ध्या वृष्टयनु-
मानम् (गौ० वृ० १९९१ । ५ ) । [ख ] यत्र कार्येण कारणमनुमीयते ।
पूर्वोदकविपरीतमुदकं नद्याः पूर्णत्वं शीघ्रत्वं च दृष्ट्वा स्रोतसोनुमीयते
भूता वृष्टिः इति ( वात्स्या० ११११५ ) । सामान्यतो दृष्टं च कार्यकार-
णभिन्नलिङ्गकम् । यथा पृथिवीत्वेन द्रव्यत्वानुमानम् (गौ० वृ० १।१।५) ।
यथा वा इच्छादिभिरात्मानुमानम् । इच्छादयो गुणाः । गुणाश्च द्रव्यसं-
स्थानाः । तद्यदेषां स्थानं स आत्मेति (वात्स्या० १।१।५ ) । एवं केव-
लान्वयि केवलव्यतिरेकि अन्वयव्यतिरेकि इत्यपि त्रिविधमनुमानं बोध्यम्
( गौ० १ । १ । ५ ) । वीतमवीतमिति मेदेन द्विविधमनुमानमिति सांख्याः ।
मीमांसकास्तु अन्वयव्यतिरेक्याख्यमेकमेवानुमानमस्ति । केवलान्वयि
केवलव्यतिरेकि वानुमानं नास्तीत्याहुः ( म० प्र० १८) । अनुमानस्य
द्वे अङ्गे । व्याप्तिः पक्षधर्मता चेति ( म०प्र० २ । २३ ) । अनुमानप्रमा-
णम् इत्यस्यार्थस्तु—अनुमिति
क्षधर्मताविशिष्टलिङ्गज्ञानम् । अत्रेदमवधेयम्-अनुमानप्रयोगे कर्तव्ये पक्षः
साध्यम् हेतुः दृष्टान्तश्च एतच्चतुष्टयं प्रायशः प्रयोक्तव्यम् । तत्र सद्धेतु-
स्थले व्यापकं साध्यम् । व्याप्यं हि लिङ्गम् ( हेतुः ) भवति । प्रकारान्त-
लागेति पदच्छेदः ।