न्यायकोशः /847
This page has not been fully proofread.
न्यायकोशः ।
७९३
पूर्वपक्षस्तथोत्तरम् । निर्णयश्चेति शास्त्रेस्मिन् पञ्चाधिकरणं स्मृतम् ॥
( मीमांसा० ) इति । निर्णयः सिद्धान्तः । ८ देशः इति काव्यज्ञा आहुः ।
विषय
– १ विषयितावत् । यथा विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः
( भा० प० श्लो० ६६ ) इत्यादौ ज्ञानं विषयि भवति । अत्रार्थे
व्युत्पत्तिः विषयोस्त्यस्य स्वनिष्ठविषयता निरूपितविषयितावत्वसंबन्धेन इति
विषय । इयं विषयितापि ज्ञानेच्छाकृतिभावनान्यतमनिष्ठा विषयतावत्व-
रूपसंबन्धविशेषः । विषयिता च नियमेन विषयतानिरूपिता भवति इति
वस्तुस्थितिः । अत्रेदं बोध्यम् । विषयितापि त्रिविधा विशेषणतानिरूपिता
प्रकारिता संसर्गतानिरूपिता संसर्गिता विशेष्यता निरूपिता विशेषियता
चेति। यथा घटबद्भूतलम् इति ज्ञाने घटनिष्ठप्रकारता निरूपिता प्रकारिता
संयोगनिष्ठसंसर्गतानिरूपिता संसर्गिता भूतलनिष्ठविशेष्यतानिरूपिता
विशेष्यिता एताः प्रकारितासंसर्गिताविशेषियताः सन्ति इति । सर्वत्रैव-
मेवोह्यम् । अत्रेदमधिकं विज्ञेयम् । गदाधरादीनां मते विषयितात्रैविध्याङ्गी-
कारेण विषयितैव अनुमित्यादि प्रतिबन्धकतावच्छेदिका हेत्वाभासलक्षणादौ
भवति । जगदीशचक्रवर्तिमते तु त्रिविध विषयता निरूपिताया अप्येकस्या
एव विषयिताया अभ्युपगमेन विषयतैव निरूपकतासंबन्धेन तादृश-
प्रतिबन्धकतावच्छेदिका भवति इति मतभेदो द्रष्टव्यः । ययोर्विषयतयो-
र्निरूप्यनिरूपकभावः तन्निरूपितविषयितयोरेवावच्छेद्यावच्छेदकभावः
इति सिद्धान्तोप्यङ्गीकर्तव्यः । तेन तद्वद्विशेष्यकतःप्रकारकत्वरूपस्य तद्व-
द्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वपर्यवसन्नस्य यथार्थज्ञानलक्षणस्य रङ्गत्वेन
• रजतावगाहिनि रजतत्वेन च रङ्गावगाहिनि इमे रङ्गरजते इत्याकारक-
• समूहालम्बनभ्रमे यथाश्रुतस्य तद्वद्विशेष्यकतत्प्रकारकत्वस्य (रङ्गविशेष्यक-
त्वरङ्गत्वप्रकारकत्वयोः रजतविशेष्यकत्वरजतत्वप्रकारकत्वयोश्च ) सत्
रङ्गत्वप्रकारतायां रङ्गविशेष्यता निरूपितत्वस्य रजतत्वप्रकारतायां च रजत-
विशेष्यतानिरूपितत्वस्य चासत्वेन रङ्गविशेष्यकत्वावच्छिन्नरङ्गत्वप्रकारक-
वरजतविशेष्यकत्वावच्छिन्नरजतत्वप्रकारकत्वयोरभावात् तादृशभ्रमे नाति-
व्याप्तिः (नील० १ पृ० १५) । २ इन्द्रियम् । अत्रार्थे स्वविषयक-
१०० न्या० को०