2023-12-25 09:37:31 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
इति जगदीश आह । गदाधरमते तु तयोर्भेद इत्यवच्छेद्यावच्छेदकभावः

स्वीकर्तव्यः । स चेत्थम् । दण्डत्वनिष्टप्रकारतानिरूपित विशेष्यत्वावच्छिन्ना

या पुरुषनिष्ठविशेष्यतानिरूपिता दण्डनिष्ठा प्रकारता तद्वान् दण्डो

भवतीति । एवं वैपरीत्येनापि पुरुषनिष्ठविशेष्यतानिरूपित दण्ड निष्ठप्रकार-

त्वावच्छिन्ना या दण्डत्वनिष्ठप्रकारतानिरूपिता दण्ड निष्ठविशेष्यता तद्वान्

दण्डो भवतीति ।
 
विशेष्यता–

 
<विशेष्यता>
व्यावर्साभाववत्तैव भाविकी हि विशेष्यता ( सर्व० सं०

पृ० ४४२ शां० ) ।
 

 
<
विशेष्यासिद्धः>
( हेत्वाभासः ) यो हेतुः स्वघटक विशेष्य विशिष्टः सन्पक्षे

न तिष्ठति न सिध्यति च सः । यथा शब्दो नित्यः अस्पर्शत्वे सति

द्रव्यत्वादित्यादौ हेतुर्विशेष्यासिद्धः । अत्र अस्पर्शत्वविशिष्टं द्रव्यत्वं हेतुः ।

सच शब्दे नास्त्येव । शब्दे अस्पर्शत्वरूपविशेषणस्य सत्त्वेपि द्रव्यत्वात्म-

कस्य विशेष्यस्याभावात् इति । अत्र विग्रहः विशेष्येणासिद्धः इति । स च

"विशेष्यासिद्धः स्वरूपासिद्धप्रभेदः (त० मा० पृ० ४६ )।

 
<
विशोका>
( सिद्धि ) सर्वभावाधिष्ठातृत्वादिरूपा ( सर्व० सं० पू०
 

३८५ पात० ) ।
 
७९१
 
-
 

 
<
विश्वासः - >
१ वञ्चकत्वाभावसंभावना । यथा न विश्वसेदविश्वस्तम् (पञ्च-

त० ) इत्यादौ । २ इदमित्थम् इत्याकारश्चित्तवृत्तिविशेषः इत्येके बदन्ति ।

 
<
विषय:- >
१ विषयतावान् । यथा अयं घटः इति ज्ञाने घटत्वम् विषयः ।

जगत् प्रमेयम् इति ज्ञाने प्रमेयत्वेन जगद्विषयः । विषयता चात्र विषयः

इत्या कारकप्रतीतिसाक्षिकः स्वरूपसंबन्धविशेषः ( न्या० म० ख० १

पृ० ४ ) । घटो ज्ञानविषयः पटो ज्ञानविषयः इत्यनुगतप्रतीतिसाक्षिको

ज्ञान विषयस्वरूपसंबन्धविशेषः इत्यर्थः ( त० प्र० ) । अत्र ज्ञानविषयत्वं

च ज्ञानसंबन्ध एव इति । इयं विषयता त्रिविधा विशेष्यता प्रकारता

संसर्गता चेति । यथा अयं घटः इति प्रत्यक्षे घटत्वे प्रकारता इदम

विशेष्यता समवायादौ संबन्धे च संसर्गता (कु० ४ ) ( त० प्र० ) इति ।

विषयता च पदार्थान्तरमेव । तथा च विषयता विषयिता च न स्वरूप-